________________
पद्मपुराणम् ।
१६४
सप्तत्रिंशत्तमं पर्व ।
विनीता पृथिवी यस्य चतुरंभोधिमेखला । आज्ञां पाणिगृहीतेव कुरुते परिपालिता ॥ ३४ ॥ आज्ञापयत्यसौ देवो भवंतमिति सत्क्रियः । वर्णैर्मदास्यविन्यस्तै रूर्जितात्मा समंततः ॥ ३५ ॥ यथा भज समागत्य भृत्यतां भरत द्रुतं । अयोध्यां वा परित्यज्य भज पारमुदन्वतः ॥ ३६ ॥ ततः क्रोधपरीतांगः शत्रुघ्नखंडया गिरा । जगाद निष्प्रतीकारो दावानल इवोत्थितः ॥ ३७ ॥ भजत्येव तथा देवो भरतस्तस्य भृत्यतां । यथा संजायते युक्तमिदं तावत्प्रभाषितं ॥ ३८ ॥ विनीतां च परित्यज्य सचिवेषु प्रभुर्भुवं । यात्येवोन्नतः पारं वशीकुर्वन् कुमानवान् ॥ ३९ ॥ वस्त्वां ज्ञापयामीति नितरां तस्य नोचितं । रासभस्य यथा मत्तवारणाधिपगर्जितं ॥ ४० ॥ सूचयत्यथवा तस्य मृत्युमेतद्वचः स्फुटं । उत्पातभूतमेतो वा स नूनं वायुवश्यतां ॥ ४१ ॥ वैराग्यादथवा ताते तपोवनमुपागते । नरेंद्रेशा समाविष्टो ग्रहेण खलवेष्टितः ॥ ४२ ॥ यद्यप्युपशमं यातस्ताताग्निर्मुक्तिकाम्यया । तथापि निर्गतस्तस्मात्फुलिंगस्तं दहाम्यहं ॥ ४३ ॥ सिंहे करींद्रकीलालपंकलोहितकेसरे । शांतेऽपि शावकस्तस्य कुरुते करिपातनं ॥ ४४ ॥ इत्युक्त्वा दह्यमानोरुवेणुकांतारभीषणं । जहास तेजसा स्थानं ग्रसमानः इवाखिलं ॥ ४५ ॥ जगाद च कुदूतस्य तावदस्य विधीयतां । खलीकारोल्पवीर्यस्य सत्यंकार इव द्रुतं ॥ ४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org