________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । पर्याप्तानि न किं तानि दुःखानीत्युदितश्च सः । सूर्यजयसुतं राज्ये निधाय कुलनंदनं ॥ ५१ ॥ वृत्तांतश्रवणात्तस्मात्परं निर्वेदमीयुषा । सूर्यजयेन सहितं सत्कर्मोदयचेतसा ॥ ५२ ॥ रत्नमाली पुनर्नानादुर्गतित्रस्तमानसः । ययौ शरणमाचार्य सौम्यं तिलकसुंदरं ॥ ५३॥ सूर्यजयस्तपः कृत्वा महाशुक्रमुपागमत् । च्युतोऽनरण्यराजर्षेः सुतो दशरथोऽभवत् ॥ ५४ ।। स्वल्पेन सुकृतेन त्वमुपास्तिप्रमुखैर्भवैः । न्यग्रोधवीजवदृद्धि संप्राप्तोऽसि शुभोदयात् ॥ ५५ ॥ नंदिवर्धनकालेन नंदिघोषपिता च यः । सोहं अवेयकाद्वष्टः सर्वभूतहितोऽभवं ।। ५६ ॥ यो भूतिरुपमन्युश्च तावंतौ तद्वशानुगौ । जनको कनकश्चेति जातौ सुकृतचेतसा ॥ ५७ ।। संसारे न परः कश्चिन्नात्मीयः कश्चिदंजसा । सैषा शुभाशुभैर्जतोरुद्वर्तपरिवर्तना ॥ ५८ ॥ उदाहृतमिदं श्रुत्वा विनीतो वीतसंशयः । अनरण्यसुतो जातः प्रबुद्धः संयमोन्मुखः ॥ ५९ ॥ सर्वादरसमेतश्च संपूज्य चरणौ गुरोः । प्रणम्य च विशुद्धात्मा प्रविवेश सुकोशलं ॥ ६ ॥ एवं च मानसे चक्रे सार्वभूमीश्वरं पदं । पद्माय सुधिये दत्वा माधवीयां श्रये गतिं ॥ ६१ ॥ धर्मात्मा सुस्थिरो रामस्त्रिसमुद्रां वसुंधरां । अनुपालयितुं शक्तो भ्रातृभिः परिवारितः ॥ ६२॥ चिंतयत्येवमेवास्मिन् राज्यमोहपरांमुखे । मुक्त्यर्थाहितचेतस्के श्रीमद्दशरथे नृपे ॥ ६३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org