________________
पद्मपुराणम् ।
१५६
त्रिंशत्तमं पर्व ।
यथा त्वद्विरहे बाला वनमाला सुदुःखिता । त्वयि मानसमारोप्य प्रेत लोकमुपागता ॥ ३८ ॥ अंशुकेन समालंव्य स्वं सा न्यग्रोधपादपे । त्वन्निमित्तमसून्तन्वी त्यज॑त्यस्माभिरीक्षिता ||३९|| एवमुक्तं त्वया नाथ यदि मे नात्र जन्मनि । समागमकृतोन्यत्र प्रसादं कर्तुमर्हसि ॥ ४० ॥ एवं निगद्य शाखायां समर्पयति पाशकं । संभ्रांतच समालिंग्य सौमित्रिरिदमब्रवीत् ॥ ४१ ॥ अयि मुग्धे सुकंठेऽस्मिन्मद्भुजालिंगनोचिते । कस्मादंशुकपाशोयं त्वया सुमुखि सज्ज्यते ॥ ४२ ॥ अहं स लक्ष्मणो मुंच पाशं परमसुंदरि । यथाश्रुतं निरीक्षस्त्र न चेत्प्रत्येषि बालिके ॥ ४३ ॥ इत्युक्त्वा पाशमेतस्याः करात्सांत्वनकोविदः । जहार लक्ष्मणः फेनपुंजं तामरसादिव ॥ ४४ ॥ ततोऽसौ त्रपया युक्ता दृष्ट्वा मंथरचक्षुषा । लक्ष्मणं नेत्रचौरेण रूपेण परिलक्षितं ।। ४५ ।। परं विस्मयमापन्ना चिंतामेवमुपागता । ईषद्वेपथुना युक्ता नवसंगमजन्मना ॥ ४६ ॥ किमयं वनदेवीभिः प्रसादो जनितो मम । कारुण्यमुपयाताभिः संदेशवचनैः परं ॥ ४७ ॥ सोयं यथाश्रुतो नाथः संप्राप्तो दैवयोगतः । भवेद्येन मम प्राणाः प्रयांतो विनिवारिताः ॥ ४८ ॥ इति संचितयंती सा किंचित्प्रस्वेदधारिणी । लक्ष्मीधरसमाश्लेषं लब्ध्वात्यंतमराजत ॥ ४९ ॥ ततो मृदुमहामोदकुसुमोदार संस्तरे । प्रबुद्धो राघवश्चक्षुर्लक्ष्मणार्थमुदीरयन् ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org