________________
पद्मपुराणम् ।
त्रिंशत्तम पर्व
यस्यां रात्रौ वनोद्देशे यत्र ते प्रथमं स्थिता । तस्यामेव तमेवैषा गता दैवनियोगतः ॥ २५ ॥ अरण्यदेवतापूजा तस्मिन् किल विनिर्मिता । सुप्तश्च सकलो लोको निराशंकः कृतक्रियः ||२६|| निश्शब्दवन निक्षेपामतो वनमृगीव सा । निष्क्रम्य शिविरात्तस्मात्प्रतस्थे भयवर्जिता ॥ २७ ॥ ततस्तस्या समाघ्राय गंधं परमसौरभं । एवं सुनुः सुमित्राया दध्यौ सम्मदमुद्वहन् || २८ ॥ ज्योतिरेखेव काप्येषा मूर्तिरत्रोपलक्ष्यते । कुमार्या श्रेष्ठया भाव्यमनया कुलजातया ॥ २९ ॥ महता शोकभारेण परिपीडितमानसा । अपश्यंती परं दुःखवारणोपायमुन्मनाः ॥ ३० ॥ अजात चिंतिता नूनमेषात्मानं जिघांसति । पश्यामि तावदेतस्याश्रेष्टामंतर्हितो भवन् ॥ ३१ ॥ इति संचित्य निश्शब्दो भूत्वा वटतरोरधः । तस्थौ कल्पद्रुमस्येव त्रिदशः कौतुकान्वितः ॥३२॥ तमेव पादपं सापि प्राप्ता हंसवधूगतिः । नतेव स्तनभारेण चंद्रवक्त्रा तनूदरी ॥ ३३ ॥ लक्ष्मणस्तां तथाभूतां दृष्ट्वा चिंतयदुक्तिभिः । वेद्मि तात्रदिमां सम्यक् कुतः कृत्यं भविष्यति ३४ अंशुकेनांबुवर्णेन कृत्वा पाशं तु कन्यका । जगादैवं गिरा योगिमनोहरणयोग्यया ।। ३५ ।। एतत्तरुनिवासिन्यः शृणुताहो सुदेवताः । भवतीभ्यो नमाम्येषा प्रसादं क्रियातां मयि ॥ ३६ ॥ वाच्यो मद्वचनादेवं भवतीभिः प्रयत्नतः । कुमारो लक्ष्मणो दृष्ट्वा वनेस्मिन् विचरन् ध्रुवं ॥३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org