________________
पद्मपुराणम् ।
१५४
त्रिंशत्तमं पर्व ।
ततोऽस्तमागते सूर्ये दिक्चक्रे तमसावृते । नक्षत्रमंडलाकीर्णे संजाते गगनांगणे ॥ १२ ॥ अपरोत्तरदिग्भागे क्षुद्रलोकभयावहे । यथाभिरुचिते देशे ते पुरो निकटे स्थिताः ॥ १३ ॥ अथात्र नगरे राजा प्रसिद्धः पृथिवीधरः । इंद्राणी महिषी तस्य योषिद्गुणसमन्विता ॥ १४ ॥ तनया वनमालेति तयोरत्यंतसुदरी । बाल्यात्प्रभृति सा रक्ता लक्ष्मणस्य गुणश्रुते ॥ १५ ॥ श्रुत्वानरण्यपुत्रस्य प्रव्रज्यासमय वचः । रक्षितुं कापि निर्यातं रामं लक्ष्मणसंयुतं ॥ १६ ॥ ध्यात्वेंद्रनगरेशस्य बालमित्राय सूनवे । सुंदरायातियोग्याय पितृभ्यां सा निरूपिता ॥ १७ ॥ तं च विज्ञाय वृत्तांतं हृदयस्थितलक्ष्मणा । विरहाद्भयमापन्ना चिंतामेवमुपागता ।। १८ ॥ अंशुकेन वरं कंठं विवेष्टयासज्ज्य पादपे । मृत्युं प्राप्तास्मि नान्येन पुरुषेण समागमं ॥ १९ ॥ विधिच्छलेन केनापि गत्वारण्यं दिनक्षये । ध्रुवमद्यैव यास्यामि मृत्युं विघ्नविवर्जितं ॥ २० ॥ प्रयाहि भगवन् भानो संप्रेषय निशां दुतं । कृतांजलिरिमं दीना पादयोः प्रपतामि ते ॥ २१ ॥ शर्वरी भण्यतां यात्वाकांक्षंती दुःखभागिनी । संवत्सरसमं वेत्ति दिनं द्राग्गम्यतामिति ॥ २२ ॥ इति संचित्य सा बाला गतेऽस्तं तिग्मतेजसि । सोपवासा समासाद्य पितृभ्यामनुमोदनं ॥ २३ ॥ प्रवरं रथमारुह्य सखीजनसमावृता । जगाम परया लक्ष्म्या वनदेवीं किलाचितुं ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org