SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १५३ अथ षत्रिंशत्तमं पर्व | ततोनुक्रमतः काले विकालप्रतिमे गते । घोरांधकारसंरुद्धे विद्युच्चकितभीषणे ॥ १ ॥ जातायां सुप्रसन्नायां शरदि प्रीतिनिर्भरः । ऊचे यक्षाधिपः पद्मं प्रस्थातुं कृतमानसं ॥ २ ॥ क्षेतव्यं देव यत्किचिदस्माकमिति दुष्कृतं । विधातुं शक्यते केन योग्यं सर्व भवादृशां ॥ ३ ॥ इत्युक्ते रामदेवोऽपि तमूचे गुह्यकाधिपं । त्वयापि निखिला स्वस्य क्षेतव्या परतंत्रता ॥ ४ ॥ सुतरां तेन वाक्येन जातः सत्तमभावनः । यक्षाणामधिपो नत्वा संभाष्य विपुलक्रियं ॥ ५ ॥ हारं स्वयंप्रभाभिख्यं ददौ पद्माय सोद्भुतं । उद्यद्दिनकराकारे हरये मणिकुंडले || ६॥ चूडामणि सुकल्याणं सीतायै विलसत्प्रभं । महाविनोददक्षां च वीणामीप्सितनादिनीं ॥ ७ ॥ स्वेच्छया तेषु यातेषु यक्षराजः पुरीकृतां । मायां समहरत्किचिद्दधानः शोकितामिव ॥ ८ ॥ चलदेवोपि कर्तव्यकरणाच्च ससम्मदः । अमन्यत परिप्राप्तमुदारं शिवमात्मनः ॥ ९ ॥ पर्यटंतो महीं स्वैरं नानारसफलाशिनः । विचित्र संकथासक्ताः रममाणाः सुरा इव ॥ १० ॥ उल्लंघ्य सुमहारण्यं द्विपसिंहसमाकुलं । जनोपभुक्तमुद्देशं वैजयंतपुरं गताः ।। ११ ।। पद्मपुराणम् । Jain Education International त्रिंशत्तमं पर्व | For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy