SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३१८ एकोनपचाशत्तमं पर्व। गच्छतं तं महाभाग्यं शतशो बन्धुपार्थिवाः । अनुजग्मुः सुनासीरं यथा त्रिदशपुंगवाः ॥३८॥ अग्रतः पृष्ठतश्वास्य पार्श्वतश्च जयस्वनैः । गच्छतां खेचरेंद्राणामासीच्छब्दमयं नमः ॥ ३९॥ . चित्रमासीद्यदश्वानां विहायस्तलगामिनाम् । मनोहारी गजानां च विलासः स्वतनूचितः ॥४०॥ महानुरंगसंयुक्तैः रथैरुच्छ्तकेतुभिः । विहायसस्तलं जातं मन्ये कल्पनगाकुलम् ॥४१॥ सितानामातपत्राणां मण्डलेन महीयसा । जातं च कुन्दखण्डानामिव पूर्ण वियत्तलम् ॥ ४२ ॥ गंभीरो दौंदुभो धीरो धानो ध्वस्तापरध्वनिः । चक्रबालं दिशा व्याप्य प्रतिध्वनिधनः स्थितः॥ संकुलं चलता तेन सैन्येन गगनांगणम् । खण्डखण्डेरिवच्छन्नमन्तरेषु व्यलोक्यते ॥४४॥ भासां भूषणजातानां बहुवर्णयुजां वयैः । विशिष्टशिल्पिना रक्तं नभो वस्त्रमिवाभवत् ॥ ४५ ॥ ध्वनि मारुतितूर्यस्य श्रुत्वा सना गहरम् । तोष कपिध्वजाःप्रापुः शिखिनोन्दध्वनिं यथा॥४६॥ कृतापणमहाशोभं ध्वजमालासमाकुलम् । रत्नतोरणसंयुक्तं किष्किधनगरं कृतम् ॥ ४७॥ बहुभिः पूज्यमानोऽसौ विभवैस्त्रिदशोपमैः । विवेश नगरं सम सुग्रीवस्य च पुष्कलम् ॥ ४८॥ सुग्रीवेण प्रतीष्टश्च यथार्ह रवितादरः । कथितं चाखिलं तस्य पद्मनाभादिचेष्टितम् ॥ ४९॥ अनेनैव ततो युक्ताः सुग्रीवाद्या नरेश्वराः । धारयन्तः परं हर्ष पद्मनाभमुपाययुः ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy