________________
पद्मपुराणम्।
एकोनपंचाशत्तमं पर्व। आर्तस्तेन स दुःखेन पद्मं शरणमागमत् । प्रतीक्ष्य सोतिविध्वंसं किष्किंधनगरं गतः ॥ २५ ॥ सुग्रीवाकृतिचौरेण समं तत्र महानभूत् । चिरं श्रान्तमहायोधः संग्रामः श्वसुरस्य ते ॥ २६ ॥ उत्थाय पद्मनाभेन ततो भूयो महौजसा । तस्याहूतस्य नष्टासौ वेताली स्तेयकारणम् ॥ २७ ॥ ततः साहसगत्याख्यः स्वस्वभावं समाश्रितः । विज्ञातो रामनिमुक्तैर्मृत्युं नीतः शिलीमुखैः ॥२८॥ तच्छ्रुत्वा विगतक्रोधो जातः पवननन्दनः । पुनरुक्तं जगौ तुष्टः विकसन्मुखपंकजः ॥ २९ ॥ कृतं कृतमहो साधु प्रियं पझेन नः परम् । यत्सुग्रीवकुलं मज्जदकीतौ क्षिप्रमुद्धतम् ॥ ३०॥ हेमकुंभोपमं गोत्रं अयशःकूपगढरे। निमज्जद्गुणहस्तेन तेनसन्मतिनोद्धृतम् ॥ ३१ ॥ एवमादिपरं भूरि प्रशंसन् रामलक्ष्मणौ । कस्मिन्नपि ममज्जासौ सारसौख्यमहार्णवे ॥ ३२ ॥ श्रुत्वा पंकजरागायाः पितुः शोकपरिक्षयम् । उत्सवः सुमहान्जातो दानपूजादिसंस्तुतः ॥३३॥ उद्वेगानन्दसंपन्नं हतछायासमुज्वलम् । श्रीशैलभवनं जातं रसद्वयसमुत्कटम् ॥ ३४ ॥ एवं विषमतां प्राप्ते स्वजने पावनंजयिः । किंचित्समत्वमाधाय किष्किन्धाभिमुखं ययौ ॥ ३५ ॥ ऋध्याभिगच्छतस्तस्य बलेनात्यर्थभरिणा। जगादन्यदिवोद्भतमाकाशपरिवर्जितम् ॥३६॥ विमानं सुमहं तस्य मणिरत्नसमुज्वलम् । प्रभां दिवसरत्नस्य जहार स्वमरीचिभिः ॥ ३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org