________________
१०१
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व । फलं प्रदक्षिणीकृत्य भुक्ते वर्षशतस्य तु । दृष्ट्वा ज़िनास्यमाप्नोति फलं वर्षसहस्रजं ॥ १८१ ॥ अनंतफलमाप्नोति स्तुतिं कुर्वन् स्वभावतः । नहि भक्तेर्जिनेंद्राणां विद्यते परमुत्तमं ॥ १८२ ॥ कर्म भक्त्या जिनेंद्राणां क्षयं भरत गच्छति । क्षीणको पदं याति यस्मिन्ननुपमं सुखं ॥१८३ ॥ इत्युक्तेत्यंतसद्भक्तिः प्रणम्य चरणी गुरोः । जग्राह भरतो धर्म सागारं सुविधानतः ॥ १८४ ॥ बहुश्रुतोऽतिधर्मज्ञो विनीतः श्रद्धयान्वितः । विशेषतो ददौ दानं स साधुषु यथोचितं ॥१८५॥ सम्यग्दर्शनरत्नं स हृदयेन सदा वहन् । चकार विपुलं राज्यं साधुचेष्टापरायणः ॥ १८६ ॥ प्रतापश्चानुरागश्च समस्तां तस्य मेदिनीं । बभ्राम प्रतिघातेन रहितां गुणवारिधेः॥ १८७ ॥ अध्यर्द्ध तस्य पत्नीनां शतं देवीसमत्विषां । न तत्र सक्तिमायाति शतपत्रं यथांभसि ॥ १८८॥ चिंतास्य नित्यं मगधाधिपासीत् । कदा नु लप्स्ये निस्गारदीक्षां ॥
तपः करिष्यामि कदा नु घोरं । संगैर्विमुक्तो विहरन् पृथिव्यां ॥ १८९ ॥ धन्या मनुष्या धरणीतले ते । ये सर्वसंगान् परिवयं धीराः॥
दग्ध्वाखिलं कर्म तपोबलेन । प्राप्ताः पदं निर्धतिसौख्यसारं ॥ १९० ।। तिष्ठामि पापो भवदुःखमनः । पश्यन्नपीदं क्षणिकं समस्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org