SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०० पद्मपुराणम्। द्वात्रिंशत्तम पर्व । सार्पषा जिननाथानाम् कुरुते योऽभिषेचनं । कांतिद्युतिप्रभावाढयो विमानेशः स जायते १६८ अभिषेकप्रभावेण श्रूयंते बहवो बुधाः । पुराणेनंतवीर्याद्या झुभूलब्धाभिषेचनाः ॥ १६९ ॥ भक्त्या वल्युपहारं यः कुरुते जिनसमनि । संप्राप्नोति परां भूतिमारोग्यं स सुमानसः ॥१७० ॥ गीतनर्तनवादित्रैर्यः करोति महोत्सवं । जिनसमन्यसौ स्वर्गे लभते परमोत्सवं ॥ १७१ ॥ भवनं यस्तु जैनेंद्र निर्मापयति मानवः । तस्य भोगोत्सवः शक्यः केन वक्तुं सुचेतसः ॥१७२॥ प्रतिमा यो जिनेंद्राणां कारयत्यचिरादसौ । सुरासुरोत्तमसुखं प्राप्य याति परं पदं ॥ १७३ ॥ व्रतज्ञानतपोदानैर्यान्युपात्तानि देहिनः । सर्वैत्रिष्वपि कालेषु पुण्यानि भुवनत्रये ॥ १७४ ॥ एकस्मादपि जैनेंद्रबिंवाद्भावेन कारितात् । यत्पुण्यं जायते तस्य न सम्मात्यतिमात्रतः ॥१७५।। फलं यदेतदुद्दिष्टं स्वर्गे संप्राप्य जंतवः । चक्रवादितां लब्ध्वा तन्मयोऽपि भुंजते ॥ १७६ ॥ धर्ममेवं विधानेन यः कश्चित्प्राप्य मानवः । संसारार्णवमुत्तीर्य त्रिलोकाग्रेऽवतिष्ठते ।। १७७ ॥ फलं ध्यानाचतुर्थस्य षष्ठस्योद्यानमात्रतः । अष्टमस्य तदारंभे गमने दशमस्य तु ॥ १७८ ॥ द्वादशस्य ततः किंचिन्मध्ये पक्षोपवास । फलं मासोपवासस्य लभते चैत्यदर्शनात् ॥१७९ ॥ चैत्यांगणं समासाद्य याति पाण्मासिकं फलं । फलं वर्षोपवासस्य प्रविश्य द्वारमश्नुते ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy