SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्वात्रिंशत्तमं पर्व। अभीतिदानपुण्येन जायते भयवर्जितः । महासंकटयातोऽपि निरुपद्रवविग्रहः ॥ १५५ ।। जायते ज्ञानदानेन विशालसुखभाजनं । कलार्णवामृतं चासौ गंडूषं कुरुते नरः ॥ १५६ ॥ यः करोति विभावर्यामाहारपरिवर्जनं । सर्वारंभप्रवृत्तोऽपि यात्यसौ सुखदां गतिं ॥ १५७ ॥ चंदनं यो जिनेंद्राणां त्रिकालं कुरुते नरः । तस्य भावविशुद्धस्य सर्वे नश्यति दुष्कृत ॥ १५८ ॥ सामोदैर्भूजलोद्भूतैः पुष्पैर्यो जिनमर्चति । विमानं पुष्पकं प्राप्य स क्रीडति यथेप्सितं ॥१५९॥ भावपुष्पैर्जिनं यस्तु पूजयतीति निर्मलैः । लोकस्य पूजनीयोसौ जायतेऽत्यंतसुंदरः ॥ १६० ।। धूपं यश्चंदनाशुभ्रागुर्वादिप्रभवं सुधीः । जिनानां ढौकयत्येष जायते सुरभिः सुरः ॥ १६१ ॥ यो जिनेंद्रालये दीपं ददाति शुभभावतः । स्वयंप्रभशरीरोसौ जायते सुरसमनि ॥ १६२ ॥ छत्रचामरलंबूषपताकादर्पणादिभिः । भूषयित्वा जिनस्थानं याति विस्मायिनीं श्रियं ॥ १६३ ॥ समालभ्य जिनान गंधैः सौरभ्यव्याप्तदिङ्मुखैः। सुरभिः प्रमदानंदो जायते दयितः पुमान् १६४ अभिषेकं जिनेन्द्राणां कृत्वा सुरभिवारिणा । अभिषेकमवाप्नोति यत्र यत्रोपजायते ॥ १६५ ।। अभिषेकं जिनेंद्राणां विधाय क्षीरधारया । विमाने क्षीरधवले जायते परमद्युतिः ॥ १६६ ॥ दधिकुभर्जिनेंद्राणां यः करोत्यभिषेचनं । दध्याभकुट्टमे स्वर्गे जायते स सुरोत्तमः ॥१६७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy