________________
पद्मपुराणम् ।
१४९
पंचत्रिंशत्तम पर्व । दध्यौ संजातकंपश्च सोयमिंदीवरप्रभः । व्यथितो दुर्विदग्धोहं चित्रैन तदावधेः ॥ १४६ ॥ कर्णयोरतिदुःखानि भाषितानि महाखले । तानि कृत्वा तदा पापे जिह्वे निस्सर सांप्रतं ॥१४७॥ किं करोमि क गच्छामि विवरं प्रविशामि किं । अस्मिन् शरणहीनस्य भवेच्छरणमद्य कः १४८ अवस्थितोयमत्रेति यदि मे विदितो भवेत् । समुल्लंघ्योत्तरामाशां देशत्यागः कुतो भवेत् १४९ एवमुद्वेगमापनो विहाय ब्राह्मणी द्विजः । प्रपलायितुमुद्युक्तो लक्ष्मणेन विलोकितः ॥ १५० ॥ स्मित्वा च स जगादायं कुतो विप्रः समागतः । वनसंवर्धितात्मेव किमित्याकुलतामितः १५१ समाश्वासमिम नीत्वा द्रुतमानय तं द्विजं । पश्यामस्तावदेतस्य चेष्टितं किमयं वदेत् ॥ १५२ ॥ न भेत्तव्यं न भेत्तव्यं निवर्तस्वेति चोदितः । अधिगम्य समाश्वास निवृत्तस्खलितक्रमः॥१५३॥ उपमृत्य भयं त्यक्त्वा प्रसृतो धवलांबरः । पुष्पांजलिस्तयोरग्रे स्थित्वा स्वस्तीत्यशब्दयत् १५४ ततो लब्धासनासीनो निकटस्थांगनो द्विजः । ऋग्भिः स्तवनदक्षाभिरस्तोषीद्रामलक्ष्मणौ १५५ ततः पद्मो जगादैव तां नः कृत्वा विमानतां । वद सांप्रतमागत्य कस्मात्पूजयसि द्विजः १५६ सोऽब्रवीन्न मया ज्ञातं त्वं प्रच्छन्नमहेश्वरः । मोहाद्विमानितस्तेन भस्मच्छन्न इवानिलः॥१५७॥ स्थितिरेषा जगन्नाथ लोके स्थावरजंगमे । धनवान् पूज्यते नित्यं यथादित्यो हिमामम॥१५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org