________________
पद्मपुराणम् ।
द्वात्रिंशत्तमं पर्व।
ते दृष्ट्वा दुःखिते वाढमजस्रास्रितलोचने । भरताभिश्रियं मेने भरतो विषदारुणं ॥१०३॥ अथैवं दुःखमापन्ने भृशं ते वीक्ष्य केकया । पश्चादुत्पन्नकारुण्यात्पुत्रमेवमभाषत ॥ १०४ ॥ पुत्र राज्यं त्वया लब्धं प्रणताखिलराजकं । पद्मलक्ष्मणनिर्मुक्तमलमेतन्न शोभते ॥ १०५ ॥ विना ताभ्यां विनीताभ्यां किं राज्यं का सुखासिका। का वा जनपदे शोभा तव का वा सुवृत्तता। राजपुच्या समं बालौ क तौ यातां सुखैधितौ । विमुक्तवाहनौ मार्गे पाषाणादिभिराकुले।।१०७॥ मातरौ दुःखिते एते तयोर्गुणसमुद्रयोः । विरहे मापतां मृत्युमजस्रपरिदेवते ॥ १०८ ॥ तसादानय तो क्षिप्रं समं ताभ्यां महासुखः । सुचिरं पालय क्षोणीमेवं सर्व विराजते ॥१०९॥ व्रज तावत्वमारुह्य तुरंगं जातरंहसं । आव्रजाम्यहमप्येषा सुपुत्रानुपदं तव ॥ ११०॥ इत्युक्तो धृतिमासाद्य साध्वेवमिति सस्वनः । संभ्रांतोऽश्वसहस्रेण भरतस्तत्पथं श्रितः ॥ १११॥ कृत्वापुरस्सरान् पद्मपान्प्रित्यागतानरान् । पवनाश्वसमारूढः स ययौ भृशमुत्सुकः ॥११२॥ प्राप्तश्च तामरण्यानीमनेकपकुलाकुलां । नानावृक्षावृतादित्यां गिरिगहरभीषणां ॥ ११३ ॥ बंधयित्वा महावृक्षरुडुपानां ससंहतीः । तां धुनीमुत्ततारासौ क्षणेन सहवाहनः ॥ ११४ ॥ इतो दृष्टावितो दृष्टौ पुरुषो सहयोषिता । इति पृच्छन्नशृण्वंश्च जगामानन्यमानसः ॥ ११५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org