________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व । अथ तौ परमारण्ये विश्रांतौ सरसस्तरे । ससीतौ भरतोऽपश्यत्पार्श्वन्यस्तशरासनौ ॥ ११६ ॥ प्रभूतदिवसप्राप्तं ताभ्यां सीता व्यपेक्षया । षद्भिर्दिनैस्तमुद्देशं भरतः प्रतिपन्नवान् ॥ ११७ ॥ अवतीर्य तुरंगाच्च मार्ग लोचनगोचरं । गत्वा पद्मां समाश्लिष्य पादौ पद्मस्य मूर्च्छितः ॥ ११८ ॥ ततो विवोधितस्तेन कृत्वा संभाषणं क्रमात् । मूर्द्धाजलिर्जगादैवं पद्मं विनतविग्रहः ॥ ११९ ॥ विडंवनमिदं कस्मान्नाथ मे भवता कृतं । परं राज्यापदेशेन न्याय सर्वस्व कोविद ।। १२० ।। आस्तां तावदिदं राज्यं जीवितेनापि किं मम । भवता विप्रयुक्तस्य गुरुचेष्टितकारिणा ॥ १२१ ॥ उतिष्ठ स्वपुरी यामः प्रसादं कुरु मे प्रभो । राज्यं पालय निश्शेषं यच्छ मेतिसुखासिकां ।। १२२ ।। भवामि छत्रधारस्ते शत्रुघ्नश्चमराश्रितः । लक्ष्मणः परमो मंत्री सर्व सुविहितं ननु ॥ १२३ ॥ पश्चात्तापानलेनालं संतप्ता जननी मम । तव लक्ष्मीधरस्यापि वर्तते शोककारिणी ॥ १२४ ॥ वत्येवमसौ यावत्केकया तावदागता । वेगिनं रथमारुह्य सामंतशतमध्यगा ।। १२५ ।। दृष्ट्वा परमशोकेन निर्भरीकृतमानसा । हाकारमुखरा चेतावालिंग्य रुदिता चिरं ।। १२६ ।। ततोऽस्रसरितश्छेदे विप्रलापेऽतिखेदिता । क्रमात्संभाषणं कृत्वा केकयैवमभाषत ॥ १२७ ॥ पुत्रोत्तिष्ठ पुरी यामः कुरु राज्यं सहानुजः । ननु त्वया विहीनं मे सकलं विपिनायते ॥ १२८ ॥
Jain Education International
९६
For Private & Personal Use Only
www.jainelibrary.org