________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व ।
भरतः शिक्षणीयोयं तवात्यंतमनीषिणः । स्त्रैणेन नष्टबुद्धर्मे क्षमस्व दुरनुष्ठितं ॥ १२९ ॥ ततः पद्मो जगादैवं किं न वेत्सि त्वमंबिके । क्षत्रिया ननु कुर्वति सकृत्कार्यमनन्यथा ।। १३० ॥ उक्तं तातेन यत्सत्यं तत्कर्तव्यं मया त्वया । भरतेन च दुष्कीर्तिर्माभूदस्य जगत्त्रये ॥ १३१ ॥ पुनश्चोवाच भरतं भ्रातांगाद्विचिंततां । शंकसे यधनाचारान्नायं मदनुमोदनात् ॥ १३२॥ इत्युक्त्वा पुनरप्यस्य पदो राज्याभिषेचनं । चकार कानने रम्ये समक्षं सर्वभूभृतां ॥ १३३ ॥ प्रणम्य केकयां शांत्वा संभाष्य च पुनः पुनः । भ्रातरं च परिष्वज्य प्राहिणोत्सोऽतिकृच्छ्रतः १३४ तौ विधाय यथायोग्यमुपचारं ससीतयोः । रामलक्ष्मणयोर्यातौ मातापुत्रौ यथागतं ॥ १३५ ॥ परिध्वस्ताखिलद्वेषं सर्वप्रकृतिसौख्यदं । चकार भरतो राज्यं प्रजासु जनकोपमः ॥१३६॥ राज्ये तथाविधेयस्य धृतिनाभूदपि क्षणं । दुस्सहं दधमानस्य शोकशल्यं मनस्विनः ॥ १३७॥ त्रिकालमरनाथस्य वंदारुर्भोगमंदधीः । ययौ श्रोतुं च सद्धर्म चैत्यमस्येयती धृतिः॥१३८॥ तत्राचार्यो द्युतिनाम स्वपरागमपारगः । महता साधुसंघेन सततं कृतसेवनः ॥ १३९ ॥ अग्रतोवंग्रहं तस्य चकार भरतः सुधीः । पद्मदर्शनमात्रेण करिष्ये मुनितामिति ॥ १४०॥ कृतावग्रहमेवं तमुवाच भगवान् द्युतिः । कुर्वन् मयूरवृंदानां नर्तनं धीरया गिरा ॥ १४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org