________________
पद्मपुराणम् ।
९४
द्वात्रिंशत्तमं पर्व ।
1
वीक्षितं परमं रूपं मनोद्रवणकारणं । पुनश्चात्यंतवित्रासकारणं दत्तवेपथुः ॥ ९० ॥ आघातः स चिरामोदो गंधो मुदितषट्पदः । पुनश्च पूतिरत्यंतमुद्वासितमहाजनः ॥ ९१ ॥ आलिंगिता मनोर्यो नार्यो लीलाविभूषणाः । पुनश्च कूटशाल्मल्यः तीक्ष्णकंटकसंकटाः ।। ९२ ।। किं न स्पृष्टं न कि दृष्टं किं घ्रातं न किं श्रुतं । मुहुरास्वादितं किं न भवे दासेन कर्मणां ॥ ९३ ॥ न सा क्षितिर्न तत्तोयं नासौ वह्निर्न सोऽनिलः । देहतां यो न मे प्राप्तो भवे संक्रामतश्चिरं ॥ ९४ ॥ त्रैलोक्ये स न जीवोऽस्ति यो न प्राप्तः सहस्रशः । पित्रादितां मम स्थानं न तद्यत्रोषितोस्मि न || अध्रुवं देहभोगादि शरणं नास्ति विद्यते । संसारोयं चतुःस्थान एकोहं दुःखमुक्तिषु ॥ ९६ ॥ अशुचेः कायतोन्योहं धारमक्षाणि कर्मणां । संवरो वारणं तेषां निर्जरा जायते ततः ॥ ९७ ॥ लोको विचित्ररूपोयं दुर्लभा बोधिसत्तमा । स्वाख्यातोयं जिनैर्धर्मः कृच्छ्रेणाधिगतो मया || ९८ || ध्यानेन मुनिदृष्टेन विशुद्धेनैवमादिना । आर्तध्यानमसौ धीरः क्रमेण निरनीनशत् ॥ ९९ ॥ येषूच्छ्रितसितच्छत्रोवरस्तंवेरमाश्रितः । महाजिषु पराजिग्ये शत्रूनत्यं तमुद्धतान् ॥ १०० ॥ विषमानधिकुर्वाणः परीषहगणान्भृशं । शांतस्तेष्वेव देशेषु निर्ग्रथो विजहार सः ॥ १०१ ॥ नाथे तथा स्थिते तस्मिन् विदेशे च गतेंगजे । परं सुमित्रया सत्रा शोकं भेजेऽपराजिता १०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org