SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ९४ द्वात्रिंशत्तमं पर्व । 1 वीक्षितं परमं रूपं मनोद्रवणकारणं । पुनश्चात्यंतवित्रासकारणं दत्तवेपथुः ॥ ९० ॥ आघातः स चिरामोदो गंधो मुदितषट्पदः । पुनश्च पूतिरत्यंतमुद्वासितमहाजनः ॥ ९१ ॥ आलिंगिता मनोर्यो नार्यो लीलाविभूषणाः । पुनश्च कूटशाल्मल्यः तीक्ष्णकंटकसंकटाः ।। ९२ ।। किं न स्पृष्टं न कि दृष्टं किं घ्रातं न किं श्रुतं । मुहुरास्वादितं किं न भवे दासेन कर्मणां ॥ ९३ ॥ न सा क्षितिर्न तत्तोयं नासौ वह्निर्न सोऽनिलः । देहतां यो न मे प्राप्तो भवे संक्रामतश्चिरं ॥ ९४ ॥ त्रैलोक्ये स न जीवोऽस्ति यो न प्राप्तः सहस्रशः । पित्रादितां मम स्थानं न तद्यत्रोषितोस्मि न || अध्रुवं देहभोगादि शरणं नास्ति विद्यते । संसारोयं चतुःस्थान एकोहं दुःखमुक्तिषु ॥ ९६ ॥ अशुचेः कायतोन्योहं धारमक्षाणि कर्मणां । संवरो वारणं तेषां निर्जरा जायते ततः ॥ ९७ ॥ लोको विचित्ररूपोयं दुर्लभा बोधिसत्तमा । स्वाख्यातोयं जिनैर्धर्मः कृच्छ्रेणाधिगतो मया || ९८ || ध्यानेन मुनिदृष्टेन विशुद्धेनैवमादिना । आर्तध्यानमसौ धीरः क्रमेण निरनीनशत् ॥ ९९ ॥ येषूच्छ्रितसितच्छत्रोवरस्तंवेरमाश्रितः । महाजिषु पराजिग्ये शत्रूनत्यं तमुद्धतान् ॥ १०० ॥ विषमानधिकुर्वाणः परीषहगणान्भृशं । शांतस्तेष्वेव देशेषु निर्ग्रथो विजहार सः ॥ १०१ ॥ नाथे तथा स्थिते तस्मिन् विदेशे च गतेंगजे । परं सुमित्रया सत्रा शोकं भेजेऽपराजिता १०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy