________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व । सामंतैर्बहुभिर्गत्वा भरताय निवेदितः । वृत्तांतो सुस्थितश्चायं ध्यायन् किमपि दुःखितः ॥७७।। अथानरण्यराजस्य तनयः सुप्रबोधनः । राज्याभिषिचनं कृत्वा भरतस्य सुचेतसः ॥ ७८ ॥ किंचित्पद्मवियोगेन संतप्तं चित्तमुद्वहन् । शोकांभोधिनिमनेन परिवर्गेण वीक्षितः ॥ ७९ ॥ कृतसांत्वनमप्युच्चैर्विलपत्स समाकुलं । अंतःपुरं परित्यज्य नगरीतो विनिर्गतः ॥ ८० ॥ गुरुपूजां परां कृत्वा द्वासप्ततिनृपान्वितः । सर्वभूतहितस्यांते शिश्रिये श्रमणश्रिया ।। ८१ ॥ अथाप्येकविहारस्य शुभं ध्यानमभीप्सतः । मानसं पुत्रशोकेन कलुषं तस्य जन्यते ॥ ८२ ॥ अन्यदा योगमाश्रित्य दध्यावेवं विचक्षणः । धिक् स्नेहं भवदुःखानां मूलं बंधमिमं मम ॥८३॥ अन्यजन्मसु ये दारा पितृभ्रातृसुतादयः । क गतास्ते ममानादो संसार गणनोज्झिताः॥८४॥ अनेकशोभया प्राप्ता विविधा विषया दिवि । नरकानलदाहाश्च संप्राप्ता भोगहेतवः ॥ ८५ ॥ अन्योन्यभक्षणादीनि तिर्यक्त्वे च चिरं मया । प्राप्तानि दुःखशल्यानि बहुरूपासु योनिषु ॥८६॥ श्रुताः संगीतनिश्वाना वंशवीणा तु गामिनः । भूयश्च परमानंदाश्चित्तदारणकारिणः ॥ ८७॥ स्तनेष्वप्सरसां पाणिलोलितो नेत्रहारिषु । पुनः कुठारघातेन दुर्वृत्तेन पृथककृतः ॥ ८८ ॥ आखादितं महावीर्यमबं सुरभि षड्रसं । त्रपुसीसादिकललं पुनश्च नरकावनौ ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org