SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। द्वात्रिंशत्तम पर्व। अपेक्षांचक्रिरे तुंगं विशालं शुभमालयं । परिवतिमतिश्याममहानोकहमालया ॥ ६४ ॥ अनुसमुश्च तं नानापुष्पजातिसमाकुलं । मकरंदरसास्वाद गुंजत्संभ्रांतषट्पदं ॥ ६५ ।। ददृशुश्च विवेकेषु देशेषु समवस्थितान् । साधून स्वाध्यायसंसक्तमानसान पुरुतेजसः ॥ ६६ ॥ क्रमेण तान्नमस्यंतः शनैर्मस्तकपाणयः । विविशुर्जिननाथस्य भवनं भृशमुज्वलं ॥ ६७ ॥ रम्येष्वद्रिनितंबेषु काननेषु सरित्सु च । तत्र काले मही प्रायो भूषितासीज्जिनालयैः ॥६८ ॥ तत्र कृत्वा नमस्कारं जिनानां शुभ्रभावनाः । रत्नसंभवगंभीरं संयतेंद्र डुढौकिरे ॥ ६९ ॥ प्रणम्य शिरसा तस्य संवेगभरवादिनः । नाथोत्तारय संसारादस्मादिति बभाषिरे ॥ ७० ॥ सत्यकेतुगणीशेन तथास्त्विति कृतध्वनौ । जग्मुस्ते परमं तोषं निर्गताः स्मो भवादिति ॥ ७१ ॥ निदग्धो विजयो मेरुः क्रूरः संग्रामलोलुपः । श्रीनागदमनो धीरः शठः शत्रुदमो धरः ॥७२॥ विनोदः कंटकः सत्यः कठोरः प्रियवर्धनः । एवमाद्या नृपा धर्म नैग्रंथ्यं समशिश्रयन् ।। ७३ ॥ साधनानि भटास्तेषां गृहीत्वा नगरी गताः । द्रुतमपेयितुं दीनाः पुत्रादीनां त्रपाचिताः॥ ७४ ॥ अणुव्रतानि संगृह्य केचिनियमधारिणः । आराधयितुमुद्युक्ता बोधिबुद्धिविभूषणाः ।। ७५ ॥ सम्यग्दर्शनमात्रेण संतोषमपरे गताः । श्रुत्वातिविमलं धर्म जिनानां जितजन्मनां ॥७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy