________________
पद्मपुराणम् ।
४०२
षष्टितम पर्व। कृतौ सुग्रीववैदेही निरस्तौ नागसायकैः । बद्धौ निपातितौ भूमौ मयनासुतनिःसृतैः ॥१०८॥ उदारे विजिते देवे श्रीभामंडलपण्डिते । वीरे सुग्रीवराजे च बहुविद्याधराधिपे ॥ १०९ ॥ संघातमृत्युमस्माकमासनं विद्धि राघव । एतौ हि नायकावुग्रावस्मत्पक्षस्य केवलौ ॥११०॥ एतामनायकीभूतां विद्याधरवरूथिनीम् । पलायनोद्यतां पश्य समाश्रित्य दिशो दश ॥ १११॥ आदित्यश्रवणेनासौ पश्य मारुतनन्दनः । विजित्य समुहायुद्धे कराभ्यां बद्धविग्रहः ॥ ११२ ॥ शरजर्जरितच्छत्रकेतुकार्मुककंकटः । गृहीतः प्रसमं वीरः प्लवंगध्वजपुंगवः ॥ ११३॥ यावत्सुग्रीवभाचक्रौ पतितौ धरणीतले । न संभावयते क्षिप्रं रावणी रणकोविदः ॥ ११४ ॥ तावदेतौ स्वयं गत्वा निश्चेटावानयाम्यहम् । त्वं साधारय निर्नाथामिमां खेचरवाहिनीम् ॥११५॥ यावदेवमसौ पद्म लक्ष्मणं चाभिभाषते । सुतारातनयस्तावद्गत्वा स्वैरमलक्षितः ॥ ११६ ॥ अंबरं भानुकर्णस्य परिघानममुंचत । हीभाराकुलितो जातः क्षरद्धरणविह्वलः ॥११७ ॥ यावद्वास:समाधानपरोऽसौ राक्षसोऽभवत् । भुजपाशोदरादस्य निःसृतस्तावदानिलिः ॥ ११८॥ नवो बद्धो यथा पक्षी निर्गतः पंजरोदरात् । आसीत्सुचकितो वातिः प्रत्युग्रद्युतिसंगतः ॥११९॥ ततो मुदितसंप्रीतौ विमानशिखरस्थितौ । हनूमदंगदौ वीरौ रेजतुः सुरसन्निभौ ॥ १२० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org