________________
१३५
चतुस्त्रिंशत्तम पर्व। अब्रवीदस्ति कौशांबी नगरी प्रथिता प्रभुः । आहिताग्निर्द्विजस्तत्र नाम्ना विश्वानलः शुचिः ॥७॥ प्रतिसंध्येति यज्जाया जातोहं तनयस्तयोः । रौद्रभूतिरिति ख्यातः शस्त्रद्यूतकलान्वितः ॥ ७८॥ बाल्यात्प्रभृति दुष्कर्म नित्यानुष्ठानकोविदः । प्राप्तश्चोर्ये कदाचिच्च शूले भेत्तुमभीप्सितः॥७९॥ ध्वनिनैकेन तत्राहं श्रद्दधानेन साधुना । मोचितो वेपमानांगः त्यक्त्वा देशमिहागतः ॥ ८॥ प्राप्तःकर्मानुभावेन काकोनदजनेशतां । भ्रष्टस्तिष्ठामि सद्वृत्तात्पशुभिः समतां गतः ॥ ८१ ।। इयंतं यस्य मे कालं सैन्याढथा अपि पार्थिवाः । चक्षुषो गोचरीभावमासन् शक्ता न सेवितुं८२ सोहं दर्शनमात्रेण कृतो देवेन विक्लवः । धन्योस्मि वीक्षितौ येन भवंतौ पुरुषोत्तमौ ॥ ८३ ॥ शासनं यच्छतां नाथौ किं करोमि यथोचितं । शिरसा पादुके किं वा वहे पावनपंडिते ॥ ८४ ॥ विंध्योयं निधिभिः पूर्णो वरयोषिच्छतैस्तथा । भुजिष्यमिच्छतां देवी मामतो निभृतं परं ॥८५॥ इत्युक्त्वा प्रणतिं कुर्वन् पुनरर्ति परां गतः । पपात विहलो भूमौ छिन्नमूलस्तरुर्यथा ॥ ८६ ।। कष्टावस्थां ततःप्राप्तं तमेवं राघवोऽवदत् । कृपालतापरिष्वक्तवीरकल्पमहातरुः ॥ ८७ ॥ उत्तिष्ठोत्तिष्ठ माभैषीर्वालिखिल्यं विबंधनं । कृत्वाऽऽनय द्रुतं प्राप्य सन्मानं परमं सुधीः ॥८८॥ तस्यैवाभिमतो भूत्वा सचिवः सज्जनान्वितः । विहाय संगतिं म्लेच्छैर्विषयस्य हितोऽभवत् ८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org