________________
पद्मपुराणम् ।
१३६
चतुस्त्रिंशत्तम पर्व |
एतच्चेत्कुरुषे सर्वमन्यथात्वविवर्जितं । ततस्ते विद्यते शांतिरद्यैत्र म्रियसेऽन्यथा ॥ ९० ॥ एवं प्रभो करोमीति कृत्वा प्रणतिमादृतः । महारथसुतं गत्वा मुमोच विनयान्वितः ॥ ९१ ॥ अभ्यंगोद्वर्त्य सुस्नानं भोजयित्वाश्वलंकृतं । आरोप्य स्यंदने नेतुमारेभे तं तदंतिकं ॥ ९२ ॥ स दध्यौ नीयमानः सन् विस्मयं परमं गतः । इतोऽपि गहनावस्था प्रायो मे भविष्यति ॥ ९३ ॥ कार्य म्लेच्छो महाशत्रुः कुकर्मात्यिंत निर्दयः । कचायमतिसन्मानो न मन्येद्यासुधारणं ॥ ९४ ॥ इति दीनमना गच्छन् सहसा पद्मलक्ष्मणौ । दृष्ट्वा परां धृतिं प्राप्तोवतीर्य सनमस्कृतिः ।। ९५ ।। अब्रवीत्तौ युवां नाथावागतावतिसुंदरौ । मम पुण्यानुभावेन मुक्तो येनास्मि बंधनात् ॥ ९६ ॥ गच्छ क्षिप्रं निजं धाम लभस्वाभीष्टसंगमं । तत्र नौ ज्ञास्यसीत्युक्ते वालिखिल्य सुधीर्गतः ॥९७॥ कृत्वा सुनिभृतं भृत्यं तस्य विश्वानलांगजं । यातौ सीतान्वितौ स्वेष्टं कृतिनौ रामलक्ष्मणौ ॥ ९८ ॥ वालिखिल्यस्तु सप्राप्तः समं रौद्रविभूतिना । स्वपुरस्यांतिकां क्षोणीं स्मरन् बांधवचेष्टितं ॥ ९९ ॥ प्रत्यासन्नं ततः कृत्वा विभूत्या परयान्वितं । पितरं निरगात्तुष्टा पुरात्कल्याणमालिनी ॥ १०० ॥ प्रतीतां सनमस्कारां तां समाधाय मस्तके | निजयाने पुनः कृत्वा प्रविष्टः कूवरं नृपः ॥ १०१ ॥ पृथिवी महिषी तोषसंजातपुलका क्षणात् । पुरातनी तनुं भेजे कांतिसागरवर्तिनीं ॥ १०२ ॥
A
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org