SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३२४ पंचाशत्तम पर्व । एवं युक्तो महाभूत्या रामादिभिरुदीक्षितः । समाक्रम्य रवेर्मार्गमयासीत्सुनिरंतरम् ॥ ११६ ॥ पूर्ण जगत्तिष्ठति जंतुवगैर्नानाविधैरुत्तमभोगयुक्तैः। . ___कश्चित्तु तेषां परमार्थकृत्ये नियुज्यते यत्परमं यशस्तत् ॥ ११७ ॥ कृतं परेणाप्युपकारयोगं स्मरन्ति नित्यं कृतिनो मनुष्याः । तेषां न तुल्यो भुवने शशांको नवा कुबेरो न रवि शक्रः ॥ ११८ ॥ इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे हनूमत्प्रस्थानं नाम एकोनपंचाशत्तमं पर्व । अथपंचाशत्तमं पर्व। अथासावांजनो गच्छन्नंबरे परमोदयः । स्वसारमिव वैदेहीमानिनीषुः रराज सः॥१॥ सुहृदाज्ञाप्रवृत्तस्य विनीतस्य महात्मनः । शुद्धभावस्य तस्यासीदुत्सवः कोऽपि चेतसः ॥२॥ पश्यतः प्रौढया दृष्टया स्थितस्य रविगोचरे । दिशा मडलमस्यासीच्छरीरावयवोपमम् ॥ ३ ॥ लंका जिगमिषोरस्य महेन्द्रनगरोपमम् । महेन्द्रनगरं दृष्टेराभिमुख्यमुपागतम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy