________________
पद्मपुराणम् ।
एकोनपचाशत्तमं पर्व ।
अत्यन्तं तदहं मन्ये हतं पौरुषमात्मनः । प्रतिरोधं प्रपन्नासि वर्तमानेऽपि यन्मयि ॥ १०३ ॥ वेद्मि निर्मलशीलाढ्या यथा त्वं मदनुवृता । जीवितुं वांछसि त्यक्तुं मद्वियोगेन दुःखिता ॥ १०४ ॥ अलं तथापि सद्वक्त्रे दुःसमाधानमृत्युना । धार्यतां मैथिली प्राणा न जीवं त्यक्तुमर्हसि || १०५ ॥ दुर्लभः संगमो भूयः पूजितः सर्ववस्तुषु । ततोऽपि दुर्लभो धर्मो जिनेन्द्रवदनोद्गतः ।। १०६ ।। दुर्लभादप्यलं तस्मान्मरणं सुसमाहितम् । तस्मिन्नसति जन्मेदं तुषनिःसारमीक्षितम् ॥ १०७ ॥ इदं च प्रत्ययोत्पादि प्रियायै मम जीवतः । सततं संस्तुतं देयमंगुलीयकमुत्तमम् ॥ १०८ ॥ वायुपुत्र द्रुतं गत्वा सीतायास्तं महाप्रभम् । ममापि प्रत्ययकरं चूडामणिमिहानय ।। १०९ ॥ यथाज्ञापयसीत्युक्त्वा रत्नवानरमौलिभृत् । कृतांजलिपुटो नत्वा सौमित्रिं च कृतांजलिः ।। ११० ।। वहिर्विनिर्ययौ हृष्टः पूर्यमाणो विभूतिभिः । क्षोभयन्तेजसा सर्व सुग्रीवभवनाजिरम् ॥ १११ ॥ संदिदेश च सुग्रीवं यावदागमनं मम । स्थातव्यं तावदत्रैव प्रमादपरिवर्जितैः ।। ११२ ।। विमानं चारुशिखरमारूढो मारुतिस्ततः । विभाति मस्तके मेरो चैत्यालय इवोज्वलः ॥ ११३ ॥ प्रययौ परया द्युत्या सितछत्रोपशोभितः । विलसद्वंशसंकाशैश्चामरैरुपजीवितः ॥ ११४ ॥ बामुत्रेगसमैरश्वैर्जगामाद्रिसमैर्गजैः । सैन्यैस्त्रिदशसंकाशैर्जगाम परितो वृतः ॥ ११५ ॥
1
Jain Education International
३२३
For Private & Personal Use Only
www.jainelibrary.org