________________
१४०
पद्मपुराणम् ।
पंचत्रिंशत्तमं पर्व |
इत्युक्त्वा मोचयित्वा तं कृत्वा लक्ष्मणमग्रतः । सीतयानुगतो रामः कुटीरान्निरगात्ततः ॥ २९ ॥ धि धि नीचसमासंग दुर्वचः श्रुतिकारणं । मनोविकारकरणं महापुरुषवर्जितं ॥ ३० ॥ वरं तरुतले शीते दुर्गमे विपिने स्थितं । परित्यज्याखिलं ग्रंथं विहृतं भुवने वरं ॥ ३१ ॥ वरमाहारमुत्सृज्य मरणं सेविते सुखं । अवज्ञातेन नान्यस्य गृहे क्षणमपि स्थितं ॥ ३२ ॥ कुलेषु सरितामद्रेः कुक्षिष्वत्यंतहारिषु । स्थास्यामो न पुनर्भूयः प्रवेक्ष्यामः खलालयं ॥ ३३ ॥ निंदन्नेव खलासंगमभिमानं परं वहन् । निर्गत्य ग्रामतः पद्मो वनस्य पदवीं श्रितः ॥ ३४ ॥ घनकालस्ततः प्राप्तो नीलयन्नखिलं नभः । पटुगर्जितसंतानप्रतिनादितगरः || ३५ ॥ गृहनक्षत्रपटलमुपगुह्य समंततः । सरावविद्युदुद्योतं जहासेव नभःस्फुटं ॥ ३६ ॥ ग्रीष्मडामरकं घोरं समुत्सार्य घनाघनः । जगर्ज विद्युदंगुल्या प्रेषितामित्र तर्जयन् ॥ ३७ ॥ नभधकारितं कुर्वन् धाराभिर्नीलतोयदः । अभिषेक्तुं समारेभे सीतां गज इव श्रियं ॥ ३८ ॥ तिम्यंतस्ते ततोभ्वर्ण पृथुन्यग्रोधपादपं । उपसखुः पुरो गेहसमान स्कंधमुन्नतं ॥ ३९ ॥ इभकर्णोगणस्तेषामभिभूतोपि तेजसा । गत्वा स्वामिनमित्यूचे नत्वा विध्यमुपाश्रितं ॥ ४० ॥ आगत्य नाकतः केऽपि मदीये नाथ सद्मनि । स्थिता यैस्तेजसैवाहं तस्माद्वासितो द्रुतं ॥ ४१ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org