________________
पद्मपुराणम् ।
पंचस्त्रिंशत्तम पर्व। श्रुत्वा तद्वचनं स्मित्वा विनायकपतिःसमं । वधुभिः प्रस्थितो गंतुं निग्रोधं वरलीलया ॥४२॥ अधीश्वरः स यक्षाणां महाविभवसंगतः । रम्यकाननसंसक्तः क्रीडन्पूतनसंज्ञकः ॥ ४३॥ दूरादेव च तौ दृष्ट्वा महारूपौ गणाधिपः । प्रयुज्यावधिमज्ञासीद्वलनाराणाविति ॥४४॥ ततस्तदनुभावेन वात्सल्येन च भूयसा । क्षणेन नगरी तेषां तेन रम्या विनिर्मिता ॥ ४५ ॥ ततस्ते सुखसंपन्नं सुप्ताः किल सुचारुणा । प्रभाते गीतशब्देन प्रबोधं समुपागताः ॥ ४६ ॥ तल्पेऽवस्थितमात्मानमपश्यन् रत्नराजिते । प्रासादं च महारम्यं बहुभृमिकमुज्वलं ॥ ४७ ॥ देहोपकारणव्यग्रं परिवर्ग च सादरं । नगरं च महाशब्दशालगोपुरशोभितं ॥ ४८ ॥ तेषां महानुभावानां दृष्टेऽस्मिन् सहसा पुरे । न मनो विस्मयं प्राप तद्धि क्षुद्रविचेष्टितं ॥ ४९ ॥ अशेषवस्तुसंपन्नास्तव ते चारुचेष्टिताः । अवस्थानं सुखं चक्रुरमरा इव भोगिनः ॥ ५० ॥ यक्षाधिपेन रामस्य पुरी यस्मात्प्रकल्पिता । ततो महीतले ख्यातिं गता रामपुरीति सा ॥५१॥ प्रतीहारा भटा शूरा अमात्याः सप्तयो गजाः । पौराश्च विविधास्तस्यामयोध्यायामिवाभवन् ५२ कुशाग्रनगरेशोऽयं गणिनं पृष्टवानिति । तयोर्नाथ तथाभूतो स द्विजः किमुचेष्टितः ॥ ५३॥ उवाच च गणस्वामी शृणु श्रेणिक स द्विजः। प्रयातः प्रातरुत्थाय दात्रहस्तो वनस्थलीं ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org