________________
पद्मपुराणम
३८१
सप्तपश्चाशत्तम पर्व।
काचिज्जगाद ते नाथ हतसंत्रणभूषणम् । पुराणं रूडकं जातं ततो नैवाति शोभसे ॥ १२ ॥ अतो नवव्रणन्यस्तस्तनमंडलसौख्यदम् । द्रक्ष्येऽहं वीरपत्नीभिर्विकाशिमुखपंकजैः ॥ १३ ॥ काचिदूचे यथैतत्ते वदनं चुंबितं मया । यथा वक्षसि संजातं ध्रुविष्यामि व्रणाननम् ॥ १४ ॥ अनतिप्रौढिका काचिद्वधूरभिनवोटिका । संग्रामे प्रोद्यते नाथे प्रौढत्वं समुपागता ॥ १५ ॥ चिराय रक्षितं मानं काचिन्नाथे रणोन्मुखे । तत्याजैकपदे कान्ता कांतसंश्लेषतत्परा ॥ १६ ॥ अवितृप्तभटी काचिद्भर्तृवक्त्रासवं पपौ । तथापि मदनं प्राप्ता रणयोग्यमसिक्षयत् ॥ १७ ॥ काचिदुत्तानितुं भर्तुश्चदनं वनजेक्षणा । नैमिषोज्झितमद्राक्षीत्सुचिरं कृतचुंबना ॥ १८ ॥ काचिद्वक्षस्तटे भर्तुः करजवणमुज्वलम् । भविष्यच्छस्त्रपातस्य सत्यंकारमिवार्पयत् ॥ १९ ॥ इति संजातचेष्टासु दयितासु यथायथम् । भटानामित्यभूदाणी महासंग्रामशालिनाम् ॥२०॥ नरास्ते दयिते श्लाघ्या ये गता रणमस्तकम् । त्यजन्त्यभिमुखा जीवं शत्रूणां लब्धकीर्तयः॥२१॥ उद्भिन्नदन्तिदन्ताग्रदोलादुर्लडितं भटाः । कुर्वन्ति न विना पुण्यैः शत्रुभिर्घोषितस्तवाः ।। २२॥ गजदंताग्रभिन्नस्य कुंभदारुणकारिणः । यत्सुखं नरसिंहस्य तत्कः कथयितुं क्षमः ॥ २३॥ त्रस्तं शरणमायातं दत्तपृष्ठं च्युतायुधम् । परित्यज्य पतिष्यामो दयिते शत्रुमस्तके ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org