________________
पद्मपुराणम् ।
२७३
षट्चत्वारिंशत्तम पर्व। व्यात्ताननैः कृतोत्पातपतनैः करवानरैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ १०२ ॥ तमःपिंडासितैस्तुंगैर्वेतालैः कृतहुंकृतैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ १०३ ।। एवं नानाविधैरुप्रैरुपसर्गः क्षणोध्रतैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ।। १०४ ॥ तावञ्च समतीतायां विभावयाँ भयादिव । जिनेन्द्रवेश्मसूत्तस्थौ शंखभेर्यादिनिःस्वनः ॥ १०५ ॥ उद्घाटितकपाटानि द्वाराणि वरवेश्मनाम् । प्रभाते गतनिद्राणि लोचनानीव रेजिरे ॥ १०६ ॥ संध्यया रंजिता प्राची दिगत्यन्तमराजत । कुंकुमस्येव पंकेन भानोरागच्छतः कृता ॥ १०७ ।। नैशं ध्वान्तं समुत्सार्य कृत्वेन्दु विगतप्रभम् । उदयाय सहस्रांशुः पंकजानि न्यवोधयत् ॥१०८॥ ततो विमलता प्राप्ते प्रभाते चलपक्षिणि । विभीषणादयः प्रापुर्दशास्यं प्रियबान्धवाः॥ १०९ ॥ खरदूषणशोकेन ते निर्वाक्यनताननाः । सवाष्पलोचना भूमौ समासीना यथोचितम् ॥१०॥ तावत्पटान्तरस्थाया रुदत्याः शोकनिर्भरम् । सुश्राव योषितः शब्दं मनोभेदं विभीषणः॥१११॥ जगाद व्याकुलः किंचिदपूर्वेयमिहांगना । का नाम करुणं रौति स्वामिनेव वियोजिता॥११२॥ शब्दोयं शोकसंभूतमस्याः कंपं समुल्वणम् । निवेदयति देहस्य दुःखसंभारवाहिनः॥ ११३ ॥ एवमुक्तं समाकर्ण्य सीता तारतरस्वनम् । रुरोद सज्जनस्याग्रे नूनं शोकः प्रवर्द्धते ॥ ११४ ॥
२-१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org