________________
२७५
पद्मपुराणम ।
षट्चत्वारिंशत्तम पर्व। मायासीदेवि संत्रासं भक्तोऽहं तव सुन्दरि । श्रृणु विज्ञाप्यमेकं मे प्रसीदावहिता ( भव ) ॥८९॥ वस्तुना केन हीनोऽहं जगत्रितयवर्तिना । न मां वृणोषि यद्योग्यमात्मनः पतिमुत्तमम् ॥ ९ ॥ इत्युक्त्वा प्रष्टुकामं तं सीतावोचत्ससंभ्रमा । अपसार्या ममांगानि मा स्पृशः पापमानसः ॥९१॥ उवाच रावणो देवि त्यज कोपाभिमानताम् । प्रसीद दिव्यभोगानां शचीव स्वामिनी भव ॥१२॥ सीतोवाच कुशीलस्य विभवाः केवलं मलम् । जनस्य साधुशीलस्य दारिद्रयमपि भूषणम् ॥९३॥ चारुवंशप्रसूतानां जनानां शीलहारितः । लोकद्वयविरोधेन शरणं मरणं वरम् ॥ ९४ ॥ परयोषित्कृताशस्य तवेदं जीवितं मुधा । शीलस्य पालनं कुर्वन् यो जीवति स जीवति ॥ ९५ ॥ एवं तिरस्कृतो मायां कर्तुं प्रववृते द्रुतम् । नेश्रुर्देव्यः परित्रस्ताः संजातं सर्वमाकुलम् ॥ ९६ ॥ एतस्मिन्नन्तरे जाते भानुमायाभयादिव । समं किरणचक्रेण प्रविवेशास्तगहरम् ॥ ९७ ॥ प्रचंडै विंगलद्डैः करिभिर्घनवृंहितैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ ९८ ॥ दंष्ट्राकरालदशनाघेर्दुःसहनिःस्वनैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ ९९ ॥ चलत्केसरसंघातैः सिंहैरुपनखांकुशैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ १०० ॥ ज्वलत्स्फुलिंगभीमाक्षैर्लसज्जिद्वैर्महोरगैः । भीषिताप्यगमत्सीता शरणं न दशाननम् ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org