________________
पद्मपुराणमे।
. अष्टचत्वारिंशत्तम पर्व। जंबूद्वीपमहीन्द्रस्य शिखरेणोपलक्षितम् । नभस्तलं परं प्राप बलदंशुकपल्लवम् ॥ ७४ ॥ वियतोऽवतरद्वीक्ष्य विमानं भानुभासुरम् । उत्पाताशंकितो जातो रत्नकेशी समाकुलः ॥ ७५ ॥ आसीदनुसमालोक्य तदसावतिविहलः । वैनतेयात्परित्रस्तः संचुकोच यथोरुगः ॥ ७६ ॥ आसन्नं च परिज्ञाय ध्वजेन कपिलक्ष्मणम् । रत्नकेशी गतश्चितामिति मृत्युभयाकुलः ॥ ७७॥ लंकाधिपतिना नूनं क्रुद्धेन जनितागसा । प्रेक्षितो मद्विनाशाय सुग्रीवोऽयमुपागतः ॥ ७८ ॥ किं न प्रतिभये शीघ्र मृतो रत्नाकरांभसि । हा धिगत्रान्तरे द्वीपे मरणं समुपागतः ॥ ७९ ॥ मनोरथं पुरस्कृत्य विद्यावीर्यविवर्जितः । जीवितः स्पृहयाविष्टः प्रापयिष्यामि किंत्वहम् ॥ ८॥ इति चिन्तयतस्तस्य संप्राप्तो वानरध्वजः । द्योतयन् सहसा द्वीपं द्वितीय इव भास्करः॥८१॥ तकं धृसरसर्वांगमालोक्य वनपांशुभिः । वानरांकध्वजोऽपृच्छदनुकंपं समुद्वहन् ।। ८२ ॥ स त्वं रत्नजटी पूर्वमासीद्विद्यासमुन्नतः । अवस्थामीदृशी कस्मादधुना भद्र संगतः ॥ ८३ ॥ इत्युक्तोऽप्यनुकंपेन सुग्रीवेण सुखाकरम् । सर्वांगं कंपयन् भीत्या दीनो रत्नजटी भृशम् ।। ८४ ॥ मा भैषीर्भद्र मा भैषीरित्युक्तश्च पुनः पुनः । जगौ कृतानतिर्षीरमतिः प्रकटिताक्षरम् ॥ ८ ॥ प्रतिपक्षी भवन् साधो रावणेन दुरात्मना । सीताहरणसक्तेन छिन्नविद्योऽहमीदृशः ।। ८६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org