________________
३०२
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्व। जीविताशां समालम्ब्य कथंचिदैवयोगतः। धजमेतं समुत्सृत्य स्थितोऽस्मि कपिपुंगव ॥ ८७ ॥ उपलब्धप्रवृत्तिश्च तोषोद्वेगं वहन् द्रुतम् । गृहीत्वा रत्नजटिनं सुग्रीवः स्वपुरं ययौ ॥ ८८ ॥ समक्षं लक्ष्मणस्याथ महतां च खगामिनाम् । जगौ रत्नजटी पद्म विनयी विहितांजलिः ॥८९॥ देव देवी नृशंसेन सती सीता दुरात्मना । हृता लंकापुरीन्द्रेण विद्या च मम कोपिनः ॥९॥ कुर्वन्ती सा महाक्रन्दं ध्वनिना चित्तहारिणा । मृगीव व्याकुलीभूता नीता तेन वलीयसा ॥९१॥ येनासीत्समरे भीमे निर्जित्य सुमहाबलः । इन्द्रो विद्याभृतामीशो वन्दिग्रहमुपाहतः ॥ ९२ ॥ स्वामी भरतखण्डानां यस्त्रयाणां निरंकुशः । कैलाशोद्धरणे येन विशालं संगतं यशः ॥९३ ॥ सागरान्ता मही यस्य दासीवाज्ञां प्रतीच्छति । सुरासुरैर्न यो जेतुं संहतैरपि शक्यते ॥ ९४ ॥ श्रेष्ठेन विदुषां तेन धर्माधर्मविवेकिना । कर्मेदं निर्मितं क्रूरं माहो जयति पापिनाम् ॥ ९५ ॥ तच्छ्रुत्वा विविधं विभ्रद्रसं काकुस्थनन्दनः । अंगस्पृशं ददौ सर्व सादरं रत्नकेशिने ॥९६ ।। देवोपगीतसंज्ञे च पुरे गोत्रक्रमागतम् । अन्वजानादधीशत्वं विच्छिन्नमरिभिश्चिरम् ॥ ९७ ॥ पुनः पुनरपृच्छच्च वार्तामालिंग्य तं नृपः । पुनः पुनर्जगादासौ प्रमोदव्याकुलाक्षरः ॥ ९८ ॥ ततः समुत्सुकः पद्मः पर्यपृच्छदतिद्रुतम् । लंकापुरी कियद्दूरे विवेदयत खेचराः ॥ ९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org