________________
३०३.
पद्मपुराणम् ।
अष्टचत्वारिंशत्तम पर्वे । इत्युक्तास्ते गता मोहं निश्चलीभूताविग्रहाः । अवाङ्मुखा गतच्छाया बभूवुर्वाग्विवर्जिताः ॥१०॥ अभिप्रायं ततो ज्ञात्वा विशीर्णहृदयास्तके । अवज्ञामंदया दृष्टया राघवेन विलोकिताः ॥१०॥ अथ भीतिपरित्रस्ताः ज्ञाता स्म इति लज्जिताः । ऊचुधीरं मनःकृत्वा करकुड्मलमस्तकाः॥१०२॥ यदीयं देव नामापि कथंचित्समुदीरितम् । ज्वरमानयति त्रासाद्वदामस्त्वत्पुरः कथम् ॥ १.३॥ क वयं क्षुद्रसामर्थ्याः क च लंकामहेश्वरः । त्यजानुबन्धमेतस्मिन् ज्ञाते संप्रति वस्तुनि ॥१०४॥ अथावश्यमिदं वस्तु श्रोतव्यं श्रूयतां प्रभो । कोऽत्र दोषः समर्थ ते किंचिद्वक्तुं हि शक्यते १०५ अस्त्यत्र लवणांभोधौ क्रूरग्राहसमाकुले । प्रख्यातो राक्षसद्वीपः प्रभूताद्भुतसंकुलः ॥ १०६ ॥ शतानि सप्त विस्तीर्णो योजनानां समंततः । परिक्षेपेण तान्येव साधिकान्येकविंशतिः॥१०७॥ मध्ये मन्दरतुल्योऽस्य त्रिकूटो नाम पर्वतः । योजनानि नवोत्तुंगपंचाशद्विपुलत्वतः ॥ १०८ ॥ हेमनानामणिस्फीतः शिलाजालावलीचितः । आसीत्तोयदवाहस्य दत्तो नाथेन रक्षसाम् ॥१०९॥ तस्य कूल्यद्रुमैश्वित्रैः शिखरे कृतभूषणे । लंकेति नगरी भाति मणिरत्नमरीचिभिः ॥ ११ ॥ विमानसदृशैः रम्यैः प्रासादैः स्वर्गसन्निभैः । मनोहरैः प्रदेशैश्च क्रीड़नादिक्रियोचितैः ॥१११॥ त्रिंशयोजनमानेन परिच्छिन्ना समंततः । महाप्राकारपरिखा द्वितीयेन वसुंधरा ॥ ११२ ॥ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org