________________
पद्मपुराणम्।
१४६
पंचत्रिंशत्तम पर्व।
उपवासपरिश्रांतश्रमणं तं निरंबरं । निराकृत्यानवेलायां मार्गोन्यस्यैव वीक्षितः ॥ १०७ ॥ अहंत समतिक्रम्य पाकशासनवंदितं । ज्योतिष्कव्यंतरादीनां शिरसा प्रणतिः कृता ॥ १०८॥ अहिंसानिर्मलं सारमहद्धर्मरसायनं । अज्ञानात्समतिक्रम्य विषमं भक्षितं विषं ॥ १०९॥ मानुषद्वीपमासाद्य त्यक्त्वा साधुपरीक्षितं । धर्मरत्नं कृतः कष्टं विभीतकपरिग्रहः ॥ ११ ॥ सर्वमक्षप्रवर्तेषु दिवारात्रौ च भोजिषु । अव्रतेषु विशीलेषु दत्तं फलविवर्जितं ॥ १११ ॥ यं किलातिथिवेलायामागतं विभवोचितं । यो नार्चयति दुर्बुद्धिस्तस्य धर्मो न विद्यते ।।११२॥ परित्यक्तोत्सवतिथिः सर्वस्वैकांतनिस्पृहः। निकेतरहितः सोयमतिथिः श्रमणः स्मृतः ॥११३॥ येषां न भोजनं हस्ते नाप्यासन्नपरिग्रहः । ते तारयंति निग्रंथाः पाणिपात्रपुटासिनः ॥ ११४ ॥ स्वशरीरेऽपि निस्संगा ये लुभ्यंति न जातुचित् । ते निष्परिग्रहा ज्ञेया मुक्तिलक्षणभूषिताः ११५ एवमुद्गतसदृष्टिः कुदृष्टिमलवर्जिता । सुशर्मा शुशुभे पत्यौ भरणीव बुधे परं ॥११६ ॥ पादमूले ततो नीत्वा गुरोस्तस्यैव सादरं । अणुव्रतानि सामोदा ब्राह्मणी तेन लंभिता ॥११७॥ विज्ञाय कपिलं रक्तं परमं जिनशासने । कुलान्याशीविषोग्राणि विप्राणां भेजिरे समं ॥ ११८ ॥ मुनिसुव्रतनाथस्य संप्राप्य सुदृढं मतं । बभूवुः श्रावकास्तीवा ऊचुश्चैव सुबुद्धयः ॥ ११९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org