________________
पद्मपुराणम्।
१४७
पंचत्रिंशत्तमं पर्व।
कर्मभारगुरुभूता मानोत्तानितमस्तकाः । स्तोकेन नरकं घोरं न याताः स्म प्रमादिनः ॥१२०॥ अज्ञातमिदमप्राप्तं जन्मांतरशतेष्वपि । जिनेंद्रशासनं ब्रह्म कृच्छ्रात्प्राप्तं सुनिर्मलं ॥ १२१ ॥ ध्यानाशशुक्षिणीविद्धे मनऋत्विक्समाहिताः । स्वकर्मसमिधोभावसर्पिषा जुहुमोधुना ॥ १२२ ॥ इति केचित्समाधाय मनःसंवेगनिर्भराः । विरक्ताः सर्वसंगेभ्यो बभूवुः श्रमणोत्तमाः ।। १२३ ॥ सागारधर्मरक्तस्तु कपिलः परमक्रियः। कदाचिद्राह्मणीमूचे सदाभिप्रायवर्तिनीं ॥ १२४ ॥ कांते रामपुरी किं नो व्रजामोद्य तमूर्जितं । विशुद्धचेष्टितं द्रष्टुं रामं राजीवलोचनं ॥ १२५ ॥ आशापरायणं नित्यमुपायगतमानसं । दारिद्यवारिधी मनमानं कुक्षिपूरणे ॥ १२६ ॥ जनमुत्तारयत्येष किल भव्यानुकंपकः । इति कीर्तिर्धमत्यस्य निर्मलाल्हादकारिणी ॥ १२७ ॥ उत्तिष्ठेवं गृहाणैवं प्रिये पुष्पकरंडकं । करोम्यहममपि स्कंधे सुकुमारमिमं शिशुं ॥ १२८ ॥ एवमुक्त्वा तथा कृत्वा दंपती संमदान्वितौ । स्वशक्या गंतुमुद्युक्तौ शुद्धवेषविभूषितौ ॥१२९॥ बजतोश्च तयोरुया उत्तस्थुः पनगाः पथि । दंष्ट्राकरालवक्त्राश्च वेतालास्तारहासिनः ॥ १३०॥ एवमादीनि वस्तूनि भीषणान्यवलोक्य तौ । निष्कंपहृदयौ भूत्वा स्तुतिमेतामुपागतौ ॥ १३१ ॥ नमस्त्रिलोकवंद्येभ्यो जिनेभ्यः सततं त्रिधा । उत्तीर्णभवपंकेभ्यो दातृभ्यः परमं शिवं ॥ १३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org