________________
पद्मपुराणम् ।
१४५
पंचत्रिंशत्तमं पर्व ।
दृष्टं ब्राह्मणि यातेन यदरण्यं मयाद्भुतं । तद्गुरोरुपदेशेन नेदानीं विस्मयाय मे ।। ९४ ।। किं किं भो ब्राह्मण ब्रूहि दृष्टं किंवा त्वया श्रुतं । उक्तोऽवोचन्न शक्नोमि हर्षात्कथयितुं प्रिये ९५ आदरेणानुयुक्तश्च कौतिकिन्या पुनः पुनः । विप्रोऽवोचत शृण्वार्ये यन्मया श्रुतमद्भुतं ।। ९६ ।। समिदर्थं प्रयातेन वनं तस्य समीपतः । दृष्टा पुरी मया रम्या यत्रासीद्गहनं वनं ॥ ९७ ॥ तदासन्ने मया चैका दृष्टा नारी विभूषिता । नूनं सा देवता कापि मनोहरणभाषिता ॥ ९८ ॥ पृष्टा च सा मयाख्यातं तया रामपुरीति च । ददाति श्रावकेभ्योऽत्र किल रामो महद्धनं ॥ ९९ ॥ ततो गत्वा मया साधोजिनेंद्रवचनं श्रुतं । आत्मा मे तर्पितस्तेन कुदृष्टिपरितापितः ॥ १०० ॥ मुनयो यत्समाश्रित्य तप्यंते सुधियस्तपः । त्यक्त्वा परिग्रहं सर्वं मुक्त्या लिंगनलालसाः ॥ १०१ ॥ सोर्हद्धर्मो मया लब्धत्रैलोक्यैकमहानिधिः । अमी यतो बहिर्भूताः क्लिश्यंते न्यवादिनः ।। १०२ ।। यथाभूतो मुनेर्धर्मः श्रुतो धर्मेण तादृशः । ब्राह्मण्यै कथितः सर्वो मलवर्जितचेतसा ।। १०३ ॥ ब्राह्मणी विनिशम्यैतं सुशर्मा वाक्यमब्रवीत् । मयापि त्वत्प्रसादेन लब्धो धर्मो जिनोदितः १०४ विधेः पश्य मया योगं मोहाद्विषफलार्थिना । वांछेनापि त्वया लब्धमर्हन्नामरसायनं ॥ १०५ ॥ मयासीन्मं दधीभाजा मणिर्हस्तगतो यथा । निजांगणगतः साधुरपमानमुपाहृतः ॥ १०६ ॥
२ – १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org