SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ૨૮૩ सप्तपञ्चाशत्तमं पर्व । पिनद्धं कस्यचिद्वर्म सुदृढं तोषहारिणः । वर्द्धमानं ततःशीघ्रं पुराणं कंटकायितम् ॥ ३८ ॥ विश्रब्धं कस्यचिज्जाया समाधानपरायणा । सारयन्ती मुहुस्तस्थौ शिरस्त्राणं सुभाषिता ॥३९॥ प्रियापरिमलं कश्चिद्दीयमानः स्ववक्षसः। कंटकं प्रति नो चक्रे मनः संग्रामलालसः ॥ ४० ॥ एवं विनिर्गता योधाः कृच्छ्रतः सांवितप्रियाः। आकुलीभूतचित्ताश्च शयनीयेषु ताः स्थिताः॥४१॥ अथाग्रकीर्तिमाध्वीकरसास्वादनलालसौ । द्विरदस्यंदनारूढावसोढौ विरलस्वनौ ॥ ४२ ॥ प्रथमं निर्गतोदात्तप्रयाणे शौर्यशालिनौ । हस्तप्रहस्तनामानौ लंकातो निर्गतौ नृपौ । ४३ ॥ अनापृच्छाऽपि तत्काले स्वामिनो राजते तयोः । दोषोऽपि हि गुणीभावं प्रस्ताव प्रतिपद्यते ४४ मारीचः सिंहजघ्राणः स्वयंभूः शंभुरुत्तमः । पृथुः पृथुबलोपेतश्चन्द्रार्को शुकसारणौ ॥४५॥ गजवीभत्सनामानौ वज्राक्ष्यो वज्रभृद्युतिः । गंभीरो निनदो नको मकरः कुलिशस्वनः ॥४६॥ उग्रनादस्तथा सुंदः निकुंभकुंभशन्दितः । संध्याक्षो विभ्रमः क्रूरो माल्यवान्खरनिखनः ॥४७॥ जंबूमाली शिखावीरो दुद्धषश्च महाबलः । एते केसरिभियुक्तः सामन्ता निययू रथैः ॥४८॥ वज्रोदरोऽथ शक्राभः क्रतान्तो विघटोदरः । महाशनिरवश्चन्द्रनखो मृत्युः सुभीषणः ॥४९॥ कुलिशोदरनामाच धूम्राक्षो मुदितस्तथा । विद्युजिह्वो महामाली कनकः क्रोधनध्वनिः ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy