SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। एकोनचत्वारिंशत्तम पर्व । अथ सद्ध्यानमारूढौ प्रलंबितमहाभुजौ । साधयंतौ सुदुस्साध्या प्रतिमां चतुराननां ॥ ३३ ॥ परेण तेजसा युक्तावब्धिधीरौ नगस्थिरौ । शरीरचेतनान्यत्ववेदिनौ मोहवर्जितौ ॥ ३४ ॥ जातरूपधरौ कांतिसागरौ नवयौवनौ । संयती प्रवराकारौ ददृशुस्ते यथादितौ ॥ ३५ ॥ दध्युश्च विस्मयं प्राप्ता यथा मुक्ताशुभाजनं । निस्सारमीहितं सर्व संसारे दुःखकारणं ॥ ३६ ॥ मित्राणि द्रविणं दाराः पुत्राः सर्वे च बाधवाः । सुखदुःखमिदं सर्व धर्म एकः सुखावहः ॥३७॥ डुढौकिरे च भक्त्याढ्या मूर्धविन्यस्तपाणयः । दधानाः परमं तोषं विनयानतविग्रहाः ॥ ३८ ॥ यावद्ददृशुरत्युग्रैर्विस्फुरद्भिमहास्वनैः । भिन्नांजनसमच्छायैश्चलजि हैः पृदाकुभिः ॥ ३९॥ समुद्यनालकै मैश्चलद्भिरनिशं धनैः । नानावणैरतिस्थूलैवेष्टितैर्वृश्चिकैच तौ ॥ ४०॥ तथाविधौ च तौ दृष्ट्वा रामोऽपि सहलक्ष्मणः । सहसा त्रासमायातो भेजे स्तंभमिव क्षगं ॥४१।। वैदेही भयसंपन्ना भर्तारं परिसबजे । माभैषीरिति तामूचे भयं त्यक्त्वा क्षगेन सः ॥ ४२ ॥ उपमृत्य ततः स्वरं ताभ्यां पन्नगवृश्चिकाः । अत्यस्ता कार्मुकाग्रेण मुहुः कृतविवर्तनाः ॥ ४३ ॥ अथोद्वर्त्य चिरं पादा तयोर्निर्झरवारिणा | गंधेन सीतया लिप्ती चारुणा पुरुभावया ॥ ४४ ॥ आसन्नानां च वल्लीनां कुसुमैवनसौरभैः । लक्ष्मीधरार्पितैः शुक्ल पूरितांतरमर्चितौ ॥ ४५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy