________________
पद्मपुराणम् ।
एक्रोनत्रिंशत्तम पर्व । एकोनत्रिंशत्तमं पर्व। आषाढधवलाष्टम्याः प्रभृत्यथ नराधिपः । महिमानं जिनेंद्राणां प्रयतः कर्तुमुद्यतः ॥ १॥ सर्वाः प्रियास्तदा तस्य तनया बांधवास्तथा । विधातुं जिनींबंबानामिति कर्तव्यमुद्यताः ॥२॥ पिनष्टि पंचवर्णानि कश्चिच्चूर्णानि सादरः । कश्चिद्ग्रथ्नाति माल्यानि लब्धवर्णः सुभक्तिषु॥३॥ वासयत्युदकं कश्चिद्रवयत्यपर क्षितिं । पिनष्टि परमान् गंधान कश्चिद्वहुविधच्छवीन् ॥ ४ ॥ द्वारशोभां करोत्यन्यो वासोभिरतिभासुरैः । नानाधातुरसैः कश्चित्कुरुते भित्तिमंडनं ॥५॥ एवं जनः परां भक्तिं वहन् प्रमदपूरितः । जिनपूजासमाधानात्पुण्यमर्जयदुत्तमं ॥६॥ ततः सर्वसमृद्धीनां कृतसंभारसन्निधिः । चकार स्नपनं राजा जिनानां तूर्यनादितं ॥ ७॥ अष्टाहोपोषितं कृत्वाभिषेकं परमं नृपः । चकार महती पूजां पुष्पैः सहजकृत्रिमैः ॥ ८॥ यथा नंदीश्वरे द्वीपे शक्रः सुरसमन्वितः । जिनेंद्रमहिमानंदं कुरुते तद्वदेव सः॥९॥ ततः सदनयातानां महिषीणां नराधिपः । प्रजिघाय महापूतं शांतगंधोदकं कृती ॥१०॥ तिसृणां तरुणीस्त्रीभिनीतं शांत्युदकं द्रुतं । प्रतीता मस्तके चक्रुस्ततो दुरितनोदनं ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org