SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पश्नपुराणम् । अष्टाविंशतितमं पर्व। अर्हतस्त्रिजगत्पूज्याश्चक्रिणो हरयो बलाः । उत्पद्यते नरा यस्यां सा कथं निंदिता मही ॥१५४॥ पंचकल्याणसंप्राप्तिः पुंसां वदत खेचराः । स्वप्नेऽपि जातु किं दृष्टा भवद्भिः खेचरावनौ।।१५५॥ इक्ष्वाकुवंशसंभूता गोष्पदीकृतविष्टपाः । अनीक्षितपरच्छत्रा महारत्नसमृद्धयः ॥ १५६ ।। सुरेंद्रकीर्तितोदारकीर्तयो गुणसागराः । व्यतीता बहवो भूमौ कृतकृत्या नरोत्तमाः ॥ १५७ ।। पुत्रोऽनरण्यराजस्य तत्र वंशे महात्मनः । जातः सुमंगलाकुक्षौ नृपो दशरथोऽभवत् ॥ १५८ ॥ यो लोकहितमुद्दिश्य विरहेदपि जीवितं । मूर्धा वहति यस्याज्ञां शेषामिव जनाऽखिलः॥ १५९ ॥ चतस्रो यस्य संपन्ना सर्वशोभागुणोज्वलाः । आशा इव महादेव्यः सुभावाः सुप्रसाधिताः १६० शतानि वरनारीणां पंच यस्य सुचेतसः । वक्त्रनिर्जितचंद्राणां हरति चरितैनः ॥ १६१ ॥ पद्मो नाम सुतो यस्य पद्मालिंगितविग्रहः । दीप्तिनिर्जिततिग्मांशुः कीर्तिनिर्जितशीतगुः ॥१६२॥ स्थैर्यनिर्जितशैलेंद्रः शोभाजितपुरंदरः । शौर्येण यो महापद्मं जयेदपि सुविभ्रमः ॥ १६३ ॥ अनुजो लक्ष्मणो यस्य लक्ष्मीनिलयविग्रहः । द्रवंति शत्रवो भीता दृष्ट्वा यस्य शरासनं ॥ १६४ ॥ वायसा अपि गच्छंति नभसा तेन किं भवेत् । गुणेष्वत्र मनः कृत्यमिदजालेषु को गुणः॥१६५॥ ग्रहणं वा भवद्भिः किं यत्र देवाधिपा अपि । क्रियते भूमिसंभूतैर्नमंतः क्षितिमस्तकाः ॥१६६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy