________________
पद्मपुराणम् ।
अष्टाविंशतितम पर्व। म्लेच्छः किं गृहणं क्षुद्रैर्यदि तेषां पराजये । प्रशशंस परां शक्तिं भूमिगोचरिणोर्बुधः ॥ १४१ ॥ म्लेच्छनिर्घाटनात्स्तोत्रं त्वया पद्मस्य कुर्वता । कृता प्रत्युतनिंदेयमहो हास्यमिदं परं ॥ १४२ ।। शिशोर्विषफले प्रीतिनिःश्वस्य वदरादिषु । ध्वांक्षस्य पादपे शुष्के स्वभावः खलु दुस्त्यजः १४३ कुसंबंधं परित्यज्य क्षितिगोचरिणामतः । कुरु विद्याधरेंद्रेण संबंधमधुना सह ॥ १४४ ॥ क्व महासंपदो देवैः सदृशो व्योमचारिणः । क्व भूमिगोचराःक्षुद्राः सर्वथैवातिदुःखिताः १४५ जनकोवोचदत्यंतविपुलः क्षारसागरः । न तत्करोति यद्वाप्यः स्तोकस्वादुपयोभृतः ॥ १४६ ॥ अत्यंतधनबंधन तमसा भूयसापि किं । अल्पेन तु प्रदीपेन जन्यते लोकचेष्टितं ॥ १४ ॥ असंख्या अपि मातंगा मदिनः कुर्वते न तत् । केसरी यत्किशोरःसंश्चंद्रमंडलकेसरः ॥ १४८ ॥ इत्युक्ते केऽपि नोत्यर्थं समं कृतमहारवाः । भूमिचेष्टां समारब्धा निंदितुं गगनायनाः॥ १४९ ॥ विद्यामाहात्म्यनिर्मुक्ता नित्यं स्वेदसमन्विताः । शौर्यसंपत्परित्यक्ता शोचनीया धराचराः॥१५०॥ वद तेषां पशूनां च को भेदो जनक त्वया । दृष्टो येन त्रपां त्यक्त्वा दुर्बुद्धिस्तान् विकत्थसे १५१ उवाच जनको धीरः हा कष्टं किं श्रुतं मया । वसुधाराजरत्नानां निंदितं पापकर्मणा ॥ १५२ ॥ कथं त्रिभुवनख्यातो वंशो नाभेयसंभवः । कर्णगोचरमेतेषां न प्राप्तो लोकपावनः ॥ १५३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org