________________
पद्मपुराणम् ।
२६६
चत्वारिंशत्तमं पर्व |
अपसार्य ममांगानि मा स्पृशः पुरुषाधम । निंद्याक्षरामिमां वाणीमीदृशीं भाषसे कथम् ।। १२ ।। पापात्मकमनायुष्यमस्वर्ग्यमयशस्करम् । असदीहितमेतत्ते विरुद्धं भयकारि च ॥ १३ ॥ परदारान् समाकांक्षन् महादुःखमवाप्स्यसि । पश्चात्तापपरीतांगो भस्मच्छन्नानलोपमाम् ॥१४॥ महता मोहपंकेन तवोपचितचेतसः । मुधा धर्मोपदेशोऽयमन्धे नृत्यविलासवत् ॥ १५ ॥ इच्छामात्रादपि क्षुद्र बद्धा पापमनुत्तमम् । नरके वासमासाद्य कष्टं वर्त्तनमाप्स्यसि ॥ १६ ॥ रूक्षाक्षराभिधानीभिः परं वाणीभिरित्यपि । मदनाहतचित्तस्य प्रेमास्य न निवर्त्तते ॥ १७ ॥ तत्र दूषणसंग्रामे निवृत्ते परमप्रियाः । शुकहस्ताद्या सोद्वेगाः बभ्राम स्वाम्यदर्शनात् ॥ १८ ॥ चलत्केतुमहाखंडं कुमारार्कसमप्रभम् । विमानं वीक्ष्य दाशास्यं मुदितास्तं डुढौकिरे ॥ १९ ॥ प्रदानैर्दिव्यवस्तूनां सम्मानैः श्वादुभिः परैः । ताभिश्च भृत्यसंपद्भिरग्राह्या जनकात्मजा ॥ २० ॥ शक्तोतिसुखधीः पातुं कः शिखामाशुशुक्षणेः । को वा नागवधूमूर्ध्नि स्पृशेद्रत्नशला किकम् २१ कृत्वा करपुटं मूर्ध्नि दशांगुलिसमाहितम् । ननाम रावणः सीतां निन्दितो पितृणाग्रवत् ॥ २२ ॥ महेंद्रसदृशैस्तावद्विभवैः सचिवैर्भृशम् । नानादिग्भ्यः समायातैरावृतो रक्षसां पतिः ॥ २३ ॥ जय वर्धस्व नन्देति शब्दैः श्रवणहारिभिः । उपगीतः परिप्राप्तो लंकामाखण्डलोपमः ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org