________________
पद्मपुराणम् ।
२६५
षट्चत्वारिंशत्तम पर्व । अथ षट्चत्वारिंशत्तमं पर्व। तत्रासावुत्तमे तुंगे विमानशिखरे स्थितः । स्वैरं स्वैरं व्रजन् रेजे रावणादिविभानुवत् ॥ १॥ सीतायाः शोकतप्ताया म्लानं वीक्ष्यास्य पंकजम् । रतिरागविमूढात्मा दध्यौ किमपि रावणः ॥२॥ अस्तु दुर्दिनवक्रायाः सीतायाः कृपणं परम् । नानाप्रियशतान्यूचे पृष्ठतः पार्श्वतोऽग्रतः ॥३॥ मारस्यात्यन्तमृदुभिर्हतोऽहं कुसुमेषुभिः । निये यदि ततः साध्वी नरहत्या भवेत्तव ॥ ४ ॥ वक्त्रारविन्दमेतत्ते सकोपमपि सुन्दरि । राजते चारुभावानां सर्वथैव हि चारुता ॥ ५॥ प्रसीद देवि भृत्यास्ये सकृच्चक्षुर्विधीयताम् । त्वच्चक्षुःकान्तितोयेन स्नातस्यापैतु मे श्रमः ॥६॥ यदि दृष्टिप्रसादं मे न करोषि वरानने । एतेन पादपझेन सकृत्ताडय मस्तके ॥ ७॥ भवत्या रमणोद्याने किं न जातोस्म्यशोककः । सुलभा यस्य ते श्लाघ्या पादपद्मतलाहतिः ॥८॥ कृशोदरि गवाक्षेण विमानशिखरस्थिता । दिशः पश्य प्रयातोऽस्मि वियदुवं रवेरपि ॥ ९ ॥ कुलपर्वतसंयुक्तं समेरुं सह सागरम् । पश्य क्षोणीमिमां देवि शिल्पिनेव विनिर्मितम् ॥ १० ॥ एवमुक्त्वा सती सीता पराचीनव्यवस्थिता । अन्तरे व्रणमाधाय जगादारुचिताक्षरम् ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org