________________
पद्मपुराणम् ।
- १०८
त्रयस्त्रिंशत्तम पर्व। दृष्ट्वा तं पुरुषो दृष्टरोमा विस्मयपूरितः। विलंबितगतिः किंचिदकरोदिति मानसे ।। ६४ ॥ समाकंपित वृक्षोयमवतीर्य समागतः । किमिंद्रो वरुणो दैत्यः किं नागः किन्नरो नरः ॥ ६५ ॥ वैवस्वतः शशांको नु वह्निर्वैश्रवणो नु किं । भास्करो न भवं प्राप्तः कोयमुत्तमविग्रहः ॥ ६६ ॥ इति ध्यायन् महाभीत्या मुकुलीकृस्य लोचने । निश्चेष्टावयवो भूमौ पपाताध्यक्तचेतनः ॥६७ ॥ उत्तिष्ठोत्तिष्ठ भद्र त्वं माभैषीरिति भाषितः । प्रत्यागतधृतिीतो लक्ष्मणेनांतिकं गुरोः ॥ ६८ ॥ ततः सौम्याननं राममभिरामं समंततः । दृष्ट्वा कांतिसमुद्रस्थं चक्षुरुत्सवकारिणं ॥ ६९ ॥ सीतया शोभितं पार्श्व वर्तिन्यातिविनीतया । मुमोच पुरुषः सद्यः क्षुधादिजपरिश्रमं ।। ७० ॥ ननाम चांजलिं कृत्वा शिरसा स्पृष्टभूतलः । छायायां भव विश्वस्त इति चोक्त उपाविशत् ।।७१॥ अपृच्छत्तं ततः पद्मः क्षरन्निव गिरामृतं । आगतोऽसि कुतो भद्र कोवा किंसंज्ञकोऽपि वा ॥७२॥ सोवोचद्रूरतः स्थानाच्छीरगुप्तिः कुटुंबिकः । देशोयं विजनः कस्मादिति पृष्टोऽवदत्पुनः ॥७३॥ सिंहोदर इति ख्यातो देवोस्त्युज्जयिनीपतिः । प्रतापप्रणतोदारसामंतः सुरसन्निभः ॥ ७४ ॥ दशांगपुरनाथोस्य वनकर्णश्रुतिर्महान् । अत्यंतदयितो भृत्यः कृतानेकाद्भुतक्रियः ।। ७५ ।। मुक्त्वा त्रिभुवनाधीशं भगवंतं जिनाधिपं । निर्ग्रथांश्च नमस्कारं न करोत्यपरस्य सः ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org