________________
पद्मपुराणम् ।
१०७
त्रयस्त्रिंशत्तम पर्व। उत्सार्य चारुलग्नां तां सादरक्रमकोविदः । संवाहयितुमासक्तो लक्ष्मणो ज्यायसोदितः ॥५१॥ निरूपय कचित्तावद्ग्रामं नगरमेव वा । घोषं वा लक्ष्मणः क्षिप्रं श्रांतेयं हि प्रजावती ॥ ५२ ॥ ततोऽन्यस्यातितुंगस्य वृक्षास्योर्द्धसमाश्रितः । दृश्यते किंचिदत्रेति पद्मनोच्येत लक्ष्मणः ॥५३॥ सोवोचद्देव पश्यामि रूपपर्वतसन्निभान् । शारदाभ्रसमुत्तुंगैः अंगजालैविराजितान् ।। ५४ ॥ प्राग्भारसिंहकर्णस्थजिनबिंबोपलक्षितान् । प्रासादान् परमोद्यानान् प्रचल-द्धव (चप) लध्वजान् ५५ ग्रामांश्चायतवापीभिः सस्यैश्च कृतवेष्टनान् । नगराणि च गंधर्वपुरैर्विभ्रंति तुल्यतां ॥५६॥ दृष्टिगोचरमात्रे तु सन्निवेशाः सुभूरयः। दृश्यंते न पुनः कश्चिदेकोप्यालोक्यते जनः ॥ ५७ ॥ समं किं परिवर्गेण विनष्टाः स्युरिह प्रजाः । उपानीताः किमु म्लेच्छवंदित्वं क्रूरकर्मभिः ॥५८॥ एकस्तु पुरुषाकारो दृश्यते चाति दूरतः । स्थाणुने पुरुषोयं तु ननु चैष चलाकृतिः ॥ ५९॥ यात्येष किमुतायाति पश्याम्यागच्छती त्ययं । तावदायातु मार्गेण जानाम्येनं विशेषतः ॥६०॥ अयं मृग इवोद्विग्नो द्रुतमायाति मानवः । रूक्षोर्द्धमूर्धजो दीनो मलोपहतविग्रहः ॥ ६१ ॥ कूर्चाच्छादितवक्षस्को वसानाचीरखंडकं । स्फुटितांघ्रिः स्रवत्स्वेदो दर्शयन् पूर्वदुष्कृतं ॥ ६२ ॥ आनयेममितः क्षिप्रमिति पझेन भाषितः । अवतीर्य गतस्तस्य सविस्मय इवांतिकं ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org