________________
पद्मपुराणम् ।
३१५
अथ एकोनपंचाशत्तमं पर्व ।
ततो नभः समुत्पत्य जगामासौ मरुज्जवः । अत्युत्तुंगैगृहैः पूर्ण श्रीपुरं श्रीनिकेतनम् ॥ १ ॥ तत्र हेमद्रवन्यस्तलेप्यतेजः समुज्वलम् । कुंदाभवलभीशोभि रत्ननिर्मितशेखरम् || २ || मुक्तादामसमाकीर्णं वातायनविराजितम् । उद्यानाकीर्णपर्यन्तं प्राविशन्मारुतेर्गृहम् || ३ | अपूर्वलोकसंघातं पश्यतस्तस्य साद्भुतम् । मनोगतागतं भूयो गतं कृच्छ्रेण धीरताम् ॥ ४ ॥ प्रविष्टे मारुतेर्गेहं तस्मिन् दूते ससंभ्रमे । अनंगकुसुमोत्पातं जगामेन्दुनखात्मजा ॥ ५ ॥ सस्पंदं दलिणं चक्षुरवधार्य व्यचिन्तयत् । प्राप्तव्यं विधियोगेन कर्म कर्तुं न शक्यते ॥ ६ ॥ क्षुद्रशक्तिसमासक्ता मानुषास्तावदासताम् । न सुरैरपि कर्माणि शक्यन्ते कर्तुमन्यथा ॥ ७ ॥ वेदितागमनस्तावद्द्द्तो नर्मदया सभाम् । प्रस्वेदकणसंपूर्णः प्रतीहार्या प्रवेशितः ॥ ८ ॥ जगादाथ यथावृत्तं निःशेषं प्रणताननः । दंडकाद्रिं समायाताः पद्मनाभादयः पुरा ॥ ९॥ शंबूकस्य वधं युद्धं विषमं खरदूषणम् । पंचतागमनं तस्य मानवैरुत्तमैः सह ॥ १० ॥ ततो निशम्य तां वार्ता शोकविहलविग्रहा । अनंगकुसुमा मूर्छामुपेता मुकुलक्षणा ॥ ११ ॥
Jain Education International
एकोनपंचाशत्तमं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org