________________
पद्मपुराणम् ।
सप्तत्रिंशत्तमं पर्व । आताय्यानुगतं नृत्यं तत्तस्यास्त्रिदशानपि । वशीकुर्वीत कैवास्था सुहरेष्वन्यजंतुषु ॥ ११२ ॥ विधाय वृषभादीनां चरितस्य प्रकीर्तनं । संक्षेपेण वशीकृत्य संमतिं सकलां भृशं ।। ११३ ॥ संगीतेन समुद्युक्ता राजानमिति नर्तकी । दधाना परमां दीप्तिमुपलब्धं सुदुस्सहं ॥ ११४ ॥ अतिवीर्य किमेत्तत्ते दुष्टं व्यवसितं महत् । नयहीनमिदं वस्तु केनात्र त्वं नियोजितः ।। ११५ ॥ किमिति स्वविनाशाय केकयानंदनस्त्वया । शांतचेताः शृगालेन केसरीव प्रकोपितः ॥११६॥ एवं गतेऽपि विभ्राणः परमं विनयं द्रुतं । संप्रसादय तं गत्वा यदि ते जीवितं प्रियं ॥११७॥ जाता विशुद्धवंशेषु वरक्रीड़नभूमयः । माभूवन् विधवा भद्र तवैता वरयोषितः ।। ११८ ॥ एता त्वया परित्यक्ता विमुक्ताशेषभूषणः । ध्रुवं पुरा न शोभंते ताराचंद्रमसा यथा ॥११९॥ विवृत्तय द्रुतं चित्तमशुभध्यानतत्परं । उत्तिष्ठ व्रज निर्माणो नमस्य भरतं सुधीः ॥ १२० ॥ एवं कुरु न चेदेवं कुरुषे पुरुषाधम । ततोद्यैव विनष्टोसि संशयोऽत्र न विद्यते ॥ १२१ ।। जीवत्येवानरण्यस्य पौत्रे राज्यं समीहसे । चकासति रवौ पापलक्ष्मीर्दोषाकरस्य का ॥१२२॥ पतितस्याद्य नो रूपे मरणं ते समुद्गतं । शलभस्येव मूढस्य दुष्पक्षस्य प्रियधुते ॥ १२३ ।। देवेन भरतेनामा गरुडेन महात्मना । अलग धमो भूत्वा प्रतिस्पर्धनमिच्छति ॥ १२४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org