________________
पद्मपुराणम् ।
सप्तत्रिंशत्तमं पर्व । ततो निर्भर्त्सनं स्वस्य भरतस्य चे संशनं । निशम्य संसदा साकमभूत्तानेक्षणो नृपः ॥ १२५ ॥ विरक्ता च सभात्यंतपरुषक्षतमानसा । जुघूर्णार्णववेलेव भ्रूतरंगसमाकुला ॥ १२६ ॥ अतिवीर्यो रुषा कंपो यावज्जग्राह सायकं । तावदुत्पत्य नर्तक्या सविलासकृतभ्रमं ॥ १२७ ॥ मंडलाग्रं समाक्षिप्य वीक्ष्यमाणेषु राजसु । जीवग्राहं विषण्णात्मा केशेषु जगृहे दृढं ॥ १२८ ॥ उद्यम्य नर्तकी खड़े पश्यंती नृपसंहति । जगादाविनयी योत्र समे वध्ये विसंशयं ॥ १२९ ॥ परित्यज्यातिवीर्यस्य पक्षं विनयमंडनाः । भरतस्य द्रुतं पादौ नमत प्रियजीविताः ॥ १३० ॥ भरतो जयति श्रीमान् गुणस्फीतांशुमंडलः । दशस्यंदनवंशेंदुर्लोकानंदकरः परः ॥ १३१ ॥ लक्ष्मी कुमुद्वती यस्य विकासं भजते तरां । द्विषत्तपननिर्मुक्ता कुर्वतः परमाद्भुतं ॥ १३२ ॥ उज्जगाम ततो लोकवक्त्रेभ्य इति निस्वरः । अहो वृत्तमिदं चित्रमिंद्रजालोपमं महत् ॥१३३॥ यस्य चारणकन्यानामिदमीडग्विचेष्टितं । भरतस्य स्वयं तस्य शक्तिः शक्रं जयेदपि ॥ १३४ ॥ न विद्यः स किमस्माकं क्रुद्धो नाथः करिष्यति । अथवा सप्रणामेषु देवो यास्यति मार्दवं १३५ ततः करिणमारुह्य राघवः सातिवीर्यकः । सहितः परिवर्गेण ययौ जिनवरालयं ॥ १३६ ॥ अवतीर्य गजात्तत्र प्रविश्य प्रमदान्वितः । चक्रे सुमहती पूजां कृतमंगलनिस्वनः ॥ १३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org