________________
पद्मपुराणम् ।
३०५
अष्टचत्वारिंशत्तमं पर्व |
अमुष्य पुस्तकर्माणि चित्रं वा सहसेक्षितम् । नाम चोच्चारितं शक्तमरीणां त्रासकर्मणि ॥ १२६ ॥ एवंविधममुं युद्धे कः शक्तो जेतुमुद्धतः । कथा चैषा न कर्तव्या चिन्त्यतामपरा गतिः ॥ १२७ ॥ ततोऽनादरतस्तेषामेकैकं वीक्ष्य लक्ष्मणः । अभाणीदूर्जितं वाक्यं घनाघनघनस्वनः ॥ १२८ ॥ सत्यं यदीदृशः ख्यातः शक्तिमान् दशवक्रकः । तत्किमश्राव्यं नाम स्व-मसौ स्रोतस्करो भवेत् ॥ दांभिकस्यातिभीतस्य मोहिनः पापकर्मणः । रक्षोधमस्य तस्यास्ति कुतः स्वल्पापि १३० शूरता अब्रवीत्पद्मनाभश्च किमुक्तेनेह भूरिणा । वार्तागमोऽपि दुःप्रापो दिष्टया लब्धो मया स च १३१ चिन्त्यमस्त्यपरं नातः क्षोभ्यतां राक्षसाधमः । जायतामुचितं भावि फलं कर्मानिलेोरितम् १३२ अथैनमूचिरे वृद्धाः क्षणं स्थित्वेव सादराः । शोकं जहीहि पद्माभ भवास्माकमधीश्वरः ॥ १३३ ॥ विद्याधरकुमारीणां गुणैरप्सरसामिव । भव भर्ता भ्रमन् - लोके वियुक्ता शेषदुःखधीः ॥ १३४ ॥ पद्मोऽवदन्न मेऽन्याभिः प्रमदाभिः प्रयोजनम् । विजयन्ते महालीलां यदि शच्या अपि स्त्रियः १३५ प्रीतिश्चेन्मयि युष्माकमस्ति कापि नभश्वराः । अनुकंपापि वा सीतां ततो दर्शयत द्रुतम् ॥ १३६ ॥ जाम्बूनदस्ततोऽवोचत्प्रभो मूढ़ग्रहस्त्वया । त्यज्यतां क्षुद्रवन्मा भूर्मयूर इव दुःखितः ॥ १३७ ॥ अस्ति वेणातटे मेही नाम्ना सर्वरुचिः किल । सुतो विनयदत्तोऽस्य गुणपूर्णसमुद्भवः ॥ १३८ ॥
२-२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org