________________
पद्मपुराणम् ।
૧૨૯
द्विपंचाशत्तमं पर्व ।
1
मूर्तियुक्तमिवानंगं सुन्दरं वायुनन्दनम् । हन्तुं समुद्यतां शक्ति संजहार त्वरावता ।। ५५ ।। दध्यौ च मारयाम्पेतं कथं दोषमपि श्रितम् । रूपेणानुपमानेन छित्ते मर्माणि यो मम ॥ ५६ ॥ यद्यनेन समं सक्ता कामभोगोदयद्युतिम् । न निषेवे च लोकेऽस्मिन् ततो मे जन्म निष्फलम् ५७ अतः सत्पथमुद्दिश्य स्वनामांकं हनूमते । प्रजिघाय शरं मुग्धा विह्वलेनान्तरात्मना ॥ ५८ ॥ पराजिता त्वया नाथ साहं मन्मथशायकैः । सुरैरपि न या शक्या जेतुं संघातिवर्तिभिः ॥५९॥ प्रोवाच मारुतिर्वाणमंकं स्वैरमुपागतम् । धृतिं परां परिप्राप्तो रथादरमवातरत् ॥ ६० ॥ उपसृत्य च तां कन्यां मृगेन्द्रसमविक्रमः । कृत्वांके गाढमालिंगत् कामो रतिमिवापराम् ॥ ६१ ॥ अथ प्रशान्तवैराशा वस्त्रुदुर्दिनलोचना । तातप्रयाणशोकार्ता जगदे वायुसूनुना ।। ६२ ।। मा रोदी: सौम्यवस्त्रे त्वमलं शोकेन भामिनि । विहिता गतिरेषैव क्षात्रधर्मे सनातने ॥ ६३ ॥ ननु ते ज्ञातमेवैतद्यथा राज्यविधौ स्थिताः । पित्रादीनपि निघ्नन्ति नराः कर्मबलेरिताः ||६४ || वृथा रोदिषि किंत्वेतद्ध्यानमार्तं विवर्जय । अस्मिन् हि सकले लोके विहितं भुज्यते प्रिये ॥ ६५ ॥ निहितोऽयमनेनेति द्विडत्र व्याजमात्रकम् । आयुः कर्मानुभावेन प्राप्तकालो विपद्यते ।। ६६ । वचोभिरेभिरन्यैश्च मुक्तशोका व्यराजत । सहिता वातिना यद्वदिन्दुना निर्धना निशा ।। ६७ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org