________________
पद्मपुराणम् ।
३३७
द्विपचाशत्तम पर्व ।
तया नानायुधाटोपैः सर्ववेगसमीरितैः । आच्छाद्यत महातेजाः शुचिसूर्य इवांबुदैः ॥ ४२ ॥ विक्रान्तः स च शस्त्रौघमनिर्वाणोन्तरस्थिरम् । व्यपोहत निजैः शस्त्रैः मायाविधिविशारदः ॥ ४३ ॥ शराः शरैरलुप्यन्त तोमराद्याः स्वजातिभिः । शक्तयः शक्तिभिर्तुना समोल्का दूरमुचयुः ॥ ४४ ॥ चक्रककचसंवर्तकनकाटोपपिंजरम् । बभूव भीषणं व्योम विद्युद्भिरिव संकुलम् ॥ ४५ ॥ तं लंकासुन्दरी भूयः रूपेणालब्धसन्निभा । धीरा स्वभावतो राजलक्ष्मीः कमललोचना ॥ ४६ ॥ ज्ञानध्यानहरैः कान्तैर्दुर्द्धरैर्गुणसन्नतैः । लावण्याहत सौंदर्यैर्मनोन्तर्भेद कोविदैः ॥ ४७ ॥ नेत्रचापविनिर्मुक्तैर्विव्यधे स्मरसायकैः । तथेतरधनुमुक्तैः शरैराकर्णसंहतैः ॥ ४८ ॥ विस्मये जगतः शक्ता सौभाग्या गुणगर्विता । तस्यालसक्रियस्पेवं प्रविष्टा हृदयोदरम् ॥ ४९ ॥ शरशक्तिशतघ्नीभिर्न तथा समपीड्यत । यथा मदनबाणौघैर्मर्मदारुण कारिभिः ॥ ५० ॥ इयं मनोहराकारा ललितैर्विशखैरपि । स बाह्याभ्यंतरं हन्ति मामित्येवमचिन्तयत् ॥ ५१ ॥ वरमस्मिन्मृधे मृत्युः पूर्यमाणस्य सायकैः । अनया विप्रयुक्तस्य जीवितं न सुरालये ॥ ५२ ॥ चिन्तयत्येवमेतस्मिन् सांप्यनंगेन चोदिता । त्रिकूटसुन्दरी कन्या करुणाशक्तमानसा ॥ ५३ ॥ विकश्वरमनोदेहं पद्मच्छदलोचनम् । अबालेन्दुमुखं बालं किरीटन्यस्तवानरम् ॥ ५४ ॥
PLUR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org