________________
पद्मपुराणम् ।
१८७ - एकोनचत्वारिंशत्तमं पर्व । क्वचिद्धमरसंघातैर्मुखसौरभलोलुपैः । कृच्छ्रादरक्षतामेतौ राजपुत्री कदर्थितां ॥७॥ शनैर्विहरमाणौ तौ ससीतौ शुभविभ्रमौ । काननेषु विचित्रेषु स्ववनेषु सुराविव ॥ ८ ॥ नानाजनोपभोग्येषु देशेषु निहितेक्षणौ । धारौ क्रमेण संप्राप्तौ पुरं वंशस्थलद्युति ॥ ९ ॥ सुदीर्घोऽपि तयोः कालो गच्छतोः सहसीतयोः । पुण्यानुगतयो सीदपि दुःखलवप्रदः ॥१०॥ अपश्यतां च तस्यांते वंशजालातिसंकटं । नगं वंशधराभिख्य भित्वेव भुवमुद्गतं ॥ ११ ॥ छायया तुंगशृंगाणां यः संध्यामिव संततं । दधाति निर्झराणां च हसतीव च शीकरैः ।। १२ ॥ निर्गच्छंती प्रजां दृष्ट्वा पुरादथ स एककां । रामः पप्रच्छ भोः कस्मात्त्रासोयं सुमहानिति १३ सोवोचदद्य दिवसस्तृतीयो वतेते नरः । नक्तमुत्तिष्ठतोऽमुष्मिन्नगे नादोस्य मस्तके ॥ १४ ॥ ध्वनिरश्रुतपूर्वोयं प्रतिनादी भयावहः । कस्येति बहुविज्ञानने वृद्धैरपि वेद्यते ॥१५॥ संक्षुभ्यतीव भूः सर्वा नदंतीव दिशो दश । सरांसि संचरंतीव निर्मूल्यंत इवांघ्रिपाः ॥ १६ ॥ रौरवारावरौद्रेण घनेन ध्वनिनामुना । श्रवणौ सर्वलोकस्य ताड्येतेऽयोघनैरिव ॥ १७ ॥ निशागमे किमस्माकं वधार्थमयमुद्यतः । करोति क्रीड़नं तावत्कोऽपि विष्टपकंटकः ॥ १८ ॥ भयेन स्वनतस्तस्मादयं लोको निशागमे । पलायते प्रभाते तु पुनरेति यथायथं ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org